संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२६

खण्डः ३ - अध्यायः ०२६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
पताकस्त्रिपताकश्च तथा वैकर्तरेमुखः॥
अर्धचन्द्रो ह्यटालश्च गुरुतुण्डस्तथापरः ॥१॥
मुष्टिश्च शिखिराख्यश्च कपित्थः खटकामुखः॥
सूच्यर्धः पद्मकोशश्च मृगशीर्षो मृगस्य च ॥२॥
लाङ्गूलः कालपद्मश्च चतुरो भ्रमरस्तथा॥
हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा ॥३॥
असंयुताः करा ह्येते द्वाविंशतिरुदाहृताः॥
अथ संयुक्ततो हस्तान्गदतस्तान्निबोध मे ॥४॥
अंजलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा॥
खटको वर्धमानश्च उत्सङ्गो निषिधस्तथा ॥५॥
दोलः पुष्पपुटश्चैव तथा मकर एव च॥
गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ॥६॥
एते वै संयुता हस्ता मया प्रोक्तास्त्रयोदश॥
नृत्तहस्तार्युपश्चैव भूयो नाम्नि निबोधत ॥७॥
चतुरस्रस्तथा वृत्तस्तथा लघुमुखौ स्मृतौ॥
तथा चैव तु विज्ञेयौ ह्यरालखटकामुखौ ॥८॥
आविद्धवक्रसंव्यास्वौ रेचितावर्द्धरेचितौ॥
अवहित्थः पल्लवितो नितम्बः केशवर्धनौ ॥९॥
लताख्यौ करिहस्तौ च पक्षोद्योताऽर्थवर्धितौ॥
ज्ञेयौ गरुडपक्षौ च दण्डपक्षौ तथैव च ॥१०॥
ऊर्ध्वमण्डलजौ चैव पार्श्वमंडलाजावपि॥
पार्श्वार्धमण्डलौ चैव उरोमण्डलकौ तथा ॥११॥
इष्टस्वस्तिककावन्यौ तथा वै पद्मकौशिकौ॥
अल्लिपल्लवसंज्ञौ च तथा चोल्वनसंज्ञितौ ॥१२॥
ललितौ वलितौ चैव ज्ञेया नृत्यकराः सदा॥
अतः परं प्रवक्ष्यामि कराणां कर्मलक्षणम् ॥१३॥
प्रसारिताग्रा सहिता यस्याङ्गुल्यो भवन्ति हि॥
कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥१४॥
एष प्रहारग्रहणे रोधने स्यात्प्रतापने॥
चलिताङ्गुलिरप्येष वायुवृष्टिनिरूपणे ॥१५॥
ऊर्ध्वगश्च तथोत्साहे छत्रादिष्वप्यधोमुखः॥
पुष्करप्रहितस्ताले समः प्रचलिताङ्गुलिः ॥१६॥
पक्ष्मोत्क्षेपे रेचितक उत्क्षिप्तश्चैव धारणे॥
अस्यैकानामिका वक्रा त्रिपताका तथा भवेत् ॥१७॥
आवाहने प्रयुञ्जीत मुकुटाभिनयेऽप्युत॥
अचलाङ्गुलिरप्येष लघुपक्षिनिरूपणे ११८॥
तयानासिकया कार्यं तथैवाश्रुप्रमार्जनम्॥
मङ्गलस्पर्शनं कार्यं शिरसश्च निवेशनम् ॥१९॥
श्रोत्रसंवरणं चैव कार्यं भूमिमुखेन तु॥
भुजङ्गानामाभिनयं भ्रमराणां तथैव च ॥२०॥
त्रिपताका यदा हस्ते भवेत्पृष्ठावलोकिनी॥
तर्जनी तु तदा ज्ञेयः कर्तरीमुखसंज्ञकः ॥२१॥
कार्योऽयं परिवारेषु भिन्नश्च पतनेषु च॥
अनामिका तु साङ्गुष्ठा अर्धचन्द्रे करे भवेत् ॥२२॥
बालचन्द्राभिनयने बालस्यात्तरवस्तथा॥
मेखलां जघनं चैव कुर्याच्चानेन कुण्डलम् ॥२३॥
खण्डप्रदेशिनी कार्या अङ्गुल्यः कुंचितास्तथा॥
शेषा भिन्नोर्ध्ववलिता म्ररालेङ्गुलयः करे ॥२४॥
गाम्भीर्यसत्त्वशौंडीर्यकेशसंग्रहणादिषु॥
स्वेदस्य चापनयने शेषे चैष करो भवेत् ॥२५॥
म्ररालः शुकतुण्डश्च वक्रितानामिकाङ्गुलिः॥
नाहन्त्वमित्यथैतेन नित्यं चाभिनयेद्बुधः ॥२६॥
अङ्गुल्यो यस्य हस्तस्य तलमध्येऽग्रसंस्थिताः॥
तासामुपरिताङ्गुष्ठः स मुष्टिरिति संज्ञितः ॥२७॥
एष प्रहारे व्यायामे निर्दयस्तनपीडने ॥
सन्धारणेऽसियष्ट्योश्च ग्रहणे कुन्तदण्डयोः ॥२८॥
ऊर्ध्वाङ्गुष्ठोऽयमेव स्यात्करः शिखरसंज्ञितः॥
एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ॥२९ ॥।
मुष्टिमध्यगतोङ्गुष्ठः कपित्थ इति कीर्तितः॥
अनेनाभिनयः कार्यो मध्ये चक्रे शरे तथा ॥३०॥
उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी॥
अस्यैव तु कपित्थस्य ततः स्यात्खटकामुखः ॥३१॥
होत्रे छत्रग्रह चैव कर्षणे व्यजने तथा॥
स्रग्दामधारणे कार्यो ह्यसङ्कोचोस्य संग्रहः ॥३२॥
प्रसृता तर्जनी चात्र यदा सूचीमुखस्तदा॥
निष्पादने चाभिनयेन्नेत्रशक्रमहेशयोः ॥३३॥
अस्याङ्गुल्यस्तु विपुलाः सहांङ्गुष्ठेन कुञ्चिताः॥
ऊर्ध्वाहंसनखस्यैव स भवेत्पद्मकोशकः ॥३४॥
श्लिष्टोङ्गुष्ठो निम्नमध्यः पताकोहिशिरो भवेत्॥
सलिलस्य प्रदाने तु कार्या तेन च सूचनम् ॥३५॥
अधोमुखीनां सर्वासामङ्गुलीनां यदा भवेत्॥
कनिष्ठाङ्गुष्ठका चोर्ध्वा तदा स्यान्मृगशीर्षकः ॥३६॥
सूचिते च्छेदिते कार्यं शक्या स्वोच्चालने तथा॥
त्रेताग्निसंस्थिता मध्या तर्जन्यङ्गुष्ठयोर्यदा ॥३७॥
काङ्गुले नामिका वक्रा तथा चोर्ध्वा कनीयसी॥
अनेन खलु कर्तव्यं फलानां तु निरूपणम् ॥३८॥
आवर्त्यन्ते करतले यस्याङ्गुल्यः करस्य वै॥
पार्श्वागतविकीर्णाश्च कोलपद्म इति स्मृतः ॥३९॥
प्रतिषेध कृते योज्यो नास्ति शून्येषु चाप्यथ॥
तिस्रः प्रसारिताङ्गुल्यस्तथा चोर्ध्वा कनीयसी ॥४०॥
तस्या मध्याश्रितोङ्गुष्ठः करः स चतुरः स्मृतः॥
वचसां विनियोगे च माध्ये चैव प्रयोजयेत् ॥४१॥
अनेनैव तथा कार्यं वर्णानां तु निरूपणम्॥
ऊर्ध्वस्थे च नवे च्श्वेतं रक्ते स्यादर्धमण्डलम् ॥४२॥
मण्डलं न भवेत्पीतं नीलं च मृदितं भवेत्॥
स्वभावस्थेन कृत्स्नं च शेषा वर्णास्तथैव च ॥४३॥
मध्यमाङ्गुष्ठसन्देशो वक्रा चैव प्रदेशिनी॥
ऊर्ध्वमन्याः प्रकीर्णाश्च भ्रमरश्च तदा भवेत् ॥४४॥
पद्मादिग्रहणे कार्यं कर्णपूरे तथाप्ययम्॥
तर्जनीमध्यमाङ्गुष्ठा त्रेताग्निस्था निरन्तरम् ॥४५॥
भवेयुर्हंसवक्त्रस्य शेषा ह्यन्याः प्रसारिताः॥
श्लक्ष्णलाघवनिःसारमार्दवेषु प्रयोजयेत् ॥४६॥
तिर्यक् पिण्डीकृता यस्मिनुन्नता च कनिष्ठिका॥
अङ्गुष्ठः कुञ्चितस्त्वेवं हंसपक्ष इति स्मृतः ॥४७॥
गण्डसंश्रयमेतेन भोजनः सपरिग्रहः॥
स्पर्शे चैवानुलापार्थे कार्ये संवाहने तथा ॥४८॥
तर्जन्यङ्गुष्ठसंदंशस्त्वरालस्य यदा भवेत्॥
निर्भुग्नतलमध्यश्च ससन्दंश इति स्मृतः ॥४९॥
संदंशस्त्रिविधो ज्ञेयस्त्वग्रहो मुखजस्तथा॥
तथा पार्श्वकृतश्चैव तस्य कर्माणि मे शृणु ॥५०॥
सन्दंशग्रहणे कार्यः शल्योद्धारे तथाग्रजः॥
आलेखारञ्जने चैव तर्जनीपीडने तथा ॥५१॥
यज्ञोपवीती पार्श्वस्थः शिरःसंदर्शने तथा॥
समागताग्राङ्गुलिको मुक्तलः पद्मकोशकः ॥५२॥
देवार्चाकरणे कार्यो बलो पद्मनिरूपणे॥
असंयुताः करा ह्येते यथावत्कीर्तिता मया ॥५३॥
पताकाभ्यां तु हस्ताभ्यां सस्फुटोञ्जलिरुच्यते॥
देवतानां गुरूणां च पितॄणां चेष्यते पुनः ॥५४॥
अन्योन्यपार्श्वसक्ताभ्यां कराभ्यां स्यात्कपोतकः॥
शीते भये च कार्योऽयं विनियोगगमे तथा ॥५५॥
अङ्गुल्यो यस्य हस्तस्य अडुल्यन्तरनिःसृताः॥
स कर्कट इति ज्ञेयः कर्तव्यस्तु विजृम्भिते ॥५६॥
मणिबन्धन विन्यस्तावरालौ वर्धमानकः॥
उत्तानौ नतपार्श्वस्थौ स्वस्तिकः परिकीर्तितः ॥५७॥
विस्तीर्णं सर्वमेतेन ऋतवो गगनं घनम्॥
समुद्रश्चाभिनेयः स्याद्भूमिश्च मनुजेश्वर ॥५८॥
खटकः खटके न्यस्य खटका वर्धमानकः॥
शृङ्गारार्थे प्रयोक्तव्यः प्रणामकरणेषु च ॥५९॥
अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ॥
उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे परः ॥६०॥
मुक्तलं तु यदा हस्तं कपित्थं परिवेष्टयेत्॥
स विज्ञेयस्तदा हस्तो निषधो नाम नामतः ॥६१॥
संक्षिप्ते चैव निक्षिप्ते तथा कार्यः प्रपीडिते॥
पताकौ लम्बितौ हस्तौ दोलेति परिकीर्तिताः ॥६२॥
ध्यानादिदाने कर्तव्यो भक्ष्यादिकरणेषु च॥
द्वितीयपार्श्वसंश्लिष्टः पूर्वः पुष्पपुटः स्मृतः ॥६३॥
पूर्वाणि चाभिनेयानि करणानेव पार्थिव॥
पताकौ तु यदा हस्तौ मूर्तहस्तावधोमुखौ ॥६४॥
उपर्युपरि विन्यस्तौ तदा समकरः करः॥
सिंहव्याघ्रमृगाद्यानां कर्तव्योऽभिनयो भवेत् ॥६५॥
अञ्चितौ कूर्परासा तु यदा स्यात्सर्पशीर्षके॥
गजदन्तस्तथा नाम्ना कार्यः शैलनिबर्हणे ॥६६॥
शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ॥
शनैरधोमुखौ विद्धाववहित्थ इति स्मृतः ॥६७॥
दौर्बल्यश्च सिते कार्यो गात्राणां च निदर्शने॥
ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ ॥६८॥
जालवातायनादीनां प्रयोगस्तेन चेष्यते॥
संयुतानां कराणां तु लक्षणं कथितं मया ॥६९॥
एवं ज्ञेयाः कराः सर्वे नानारससमुद्भवाः॥
अत ऊर्ध्वं प्रवक्ष्यामि नुस्तुहस्तमपाश्रयम् ॥७०॥
वक्षसोऽष्टांगुलस्थौ तु प्राङ्मुखौ खटकामुखौ॥
समानकूर्परासौ तु चतुरस्रो प्रकीर्तितौ ॥७१॥
हंसपक्षौ स्मृतौ हस्तौ व्यावृत्तौ तालवृन्तवत्॥
उद्वृत्ताविति विज्ञेयावथ व तालवृन्तकौ ॥७२॥
चतुरस्रीकृतौ हस्तौ हंसपक्षीकृतौ तथा॥
तिर्यङमुखावूर्ध्वतलौ ज्ञेयौ लघुमुखाविति ॥७३॥
तावेव मणिधन्वांतावरालकचितौ करौ॥
ज्ञेयावभिनये त्वेतौ ह्यरालखटकामुखौ ॥७४॥
भुजौ सकूर्पराग्रौ तु कुटिलावर्तितौ करौ॥
अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ॥७५॥
सर्पशीर्षौ यदा हस्तौ भवतां स्वस्तिक स्थितौ॥
तिर्यक्प्रसारितास्यौ च ज्ञेयौ सूचीमुखाविति ॥७६॥
रेचितौ चापि विज्ञेयौ हंसपक्षाद्भुतभ्रमौ॥
प्रसारितोत्तानतलौ रचितावेव सं ज्ञितौ ॥७७॥
चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः॥
विज्ञेयो नाट्यतत्त्वज्ञैरेवं रेचितसंज्ञितः ॥७८॥
अञ्चितौ कूर्पराभ्यां तु त्रि पताकौ यदा करौ॥
किंचित्तिर्यग्गतावेतावावहित्थ प्रकीर्तितः ॥७९॥
मणिबन्धननिर्मुक्तौ शिथिलौ पल्लवौ स्मृतौ॥
बाहु शीविनिष्क्रान्तौ नितम्बौ परिकीर्तितौ ॥८०॥
अंसदेशे प्रवृत्तौ तु परिपार्श्वोत्थितौ तथा॥
विज्ञेयौ केशबंधाख्यौ करावाचार्यसम्मतौ ॥८१॥
तिर्यक्प्रसारितावेव पार्श्वसंस्थौ तथैव च॥
लताख्यौ तु करौ ज्ञेयौ नृत्ताभिनयनं प्रति ॥८२॥
समुन्नता लताहस्तः पार्श्वात्पार्श्वविलोडितः॥
द्वितीयः खटकाख्यश्च करिहस्तः प्रकीर्तितः ॥८३॥
कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ॥
पक्षावञ्चितकौ वामे तदा ज्ञेयौ प्रयोक्तृभिः ॥८४॥
तावेव तु परावृत्तौ पक्षाघातौ कराविति॥
अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ ॥८५॥
तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ॥
तौ चोर्ध्वमण्डलौ ज्ञेयौ गुरुदेशविवर्तनात् ॥८६॥
तावेव पार्श्वविन्यस्तौ विज्ञेयौ पार्श्वमण्डलौ॥
वेष्टितावेष्टितौ हस्तौ तयोर्मण्डलकौ स्मृतौ ॥८७॥
तावेव मणिबन्धान्तौ स्वस्तिकाकृतिसंज्ञितौ॥
स्वस्तिकाविति विख्यातौ विख्यातौ च प्रकी र्णकौ ॥८८॥
द्वावेव पद्मकोशाभौ पद्मकोशाविति स्मृतौ॥
करावुद्धे जिताग्रौ तु विज्ञेयावलिपल्लवौ ॥८९॥
ऊर्ध्वप्रसारितौ विद्धौ विज्ञेयावुल्वणाविति॥
पल्लवौ तु शिरोदेशे सम्प्राप्तौ ललिताविति ॥९०॥
कूर्परस्वस्तिकन्यस्तौ ललितावलितौ स्मृतौ॥
संयुता वियुताश्चैव नृत्तहस्ताः प्रकीर्तिताः ॥९१॥
नानार्थरससंयुक्तं प्रयोगकालसंश्रयम्॥
विज्ञेयं नृत्तहस्तानां तेन नाभिहितं मया ॥९२॥
आधिग्रस्ते जगन्ते च नियमस्थे जगर्दिते॥
मत्ते प्रमत्ते चिन्तायां नाभिनेयः करो भवेत् ॥९३॥
उद्वेष्टं समवेष्टं च विचेष्टितविवर्तिते॥
कर्मेदं नृत्तहस्तानां विज्ञेयं च चतुर्विधम् ॥९४॥
कार्या ललितसंचारा नृत्तहस्तापरा बुधैः॥
लालित्यमेव विज्ञेयं वृत्तस्य प्रतिबोधनम्॥९५॥
देशं कालं प्रयोगं च ह्यर्थयुक्तिमवेक्ष्य च॥
हस्ता एते प्रयोक्तव्या स्त्रीणां नॄणां च नर्तके ॥९६॥
हस्ता मयैते कथिता नृवीर सर्वं करायत्तमिदं हि नृत्तम्॥
यत्नश्च कार्यस्तु करेषु तस्माच्चातुर्यलास्याभिनयोपपन्नम्॥९७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तहस्तव्यवस्थावर्णनो नाम षड्विंशतितमो ऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP