संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ००१

खण्डः ३ - अध्यायः ००१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.



 ॥अथ श्रीविष्णुमहापुराणे विष्णुधर्मोत्तरतृतीयखण्डप्रारम्भः॥

 ॥वज्र उवाच॥
किं कर्तव्यं मनुष्येण किं कुर्वन्सुखमेधते॥
अस्मिँल्लोके परे चैव केनाप्नोति महत्सुखम् ॥१॥
मार्कण्डेय उवाच ॥
अन्तर्वेदि बहिर्वेदि पुरुषेण विजानता॥
देवतापूजनं कार्यं लोकद्वयमभीप्सता ॥२॥
यज्ञेषु देवयजनमन्तर्वेदि प्रकीर्तितम्॥
बहिर्वेदि तथैवोक्तमुपवासव्रतादिकम्॥
इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता ॥३॥
देवानामालयः कार्यो द्वयमप्यत्र दृश्यते॥
विशेषेण कलौ काले कर्तव्यं देवतागृहम् ॥४॥
कृतत्रेताद्वापरेषु नराः पश्यन्ति देवताम्॥
तिष्यं प्राप्य न पश्यन्ति पूजास्त्वर्चागता यतः ॥५॥
कृतादिष्वपि दृष्ट्वा च देवान्मनुजसत्तम॥
अर्चागतविशेषेण पूजयन्ति विधानतः ॥६॥
चित्रसूत्रविधानेन देवतार्चां विनिर्मिताम्॥
सुरूपां पूजयेद्विद्वांस्तत्र संनिहिता भवेत् ॥७॥
स्वाकारां लक्षणोपेतां यस्तां संपूजयेन्नरः॥
स सर्वकामानाप्नोति नात्र कार्या विचारणा॥
अस्मिँल्लोके परे चैव सुखवान्स भवेत्सदा ॥८॥
अथार्चां लक्षणैर्हीनां यस्तु पूजयते नरः॥
तस्यानर्था विवर्धन्ते तस्मात्तां च विवर्जयेत् ॥९॥
प्रासादकरणं पुण्यं देवार्चाकरणं तथा॥
सुरार्चापूजनं पुण्यं तत्र पुण्या नमस्क्रिया ॥१०॥
तस्मात्सर्वप्रत्नेन सुरार्चां लक्षणान्विताम्॥
कारयेत्पूजनं विद्वान्न त्वलक्षणसंयुताम् ॥११॥
धर्ममर्थं तथा कामं मोक्षं च यदुनन्दन॥
प्रयच्छन्ति महाराज नराणामिह देवताः ॥१२॥
कामानिष्टान्प्रयच्छन्ति स्वर्गमत्यन्तमेव च॥
तस्मात्सर्वप्रयत्नेन नृणां पूज्या दिवौकसः ॥१३॥
नित्यं नराणां सुरपूजकानां लोका मनोज्ञाः सुलभा भवन्ति॥
लोके तथास्मिन्धनधान्ययुक्ताः समृद्धिभाजश्च नरा भवन्ति ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : December 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP