संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८२

खण्डः ३ - अध्यायः ०८२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
आचक्ष्व रूपं लक्ष्म्या मे भृगुवंशविवर्धन॥
या माता सर्वलोकस्य पत्नी विष्णोर्महात्मनः ॥१॥
मार्कण्डेय उवाच॥
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप॥
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥२॥
गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि॥
पृथक्चतुर्भुजा कार्या देवी सिंहासने शुभे ॥३॥
सिंहासनेऽस्याः कर्तव्यं कमलं चारुकर्णिकम्॥
अष्टपत्रं महाभाग कर्णिकायान्तु संस्थिता ॥४॥
विनायकवदासीना देवी कार्या महाभुज॥
बृहन्नालं करे कार्यं तस्याश्च कमलं शुभम् ॥५॥
दक्षिणे यादव श्रेष्ठ केयूरप्रान्तसंस्थितम्॥
वामेऽमृतघटः कार्यस्तथा राजन्मनोहरः ॥६॥
तथैवान्यौ करौ कार्यौ बिल्वशङ्खधरौ नृप॥
आवर्जितघटं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥७॥
देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम्॥
सौभाग्यं तद्विजानीहि शङ्खमृद्धिं तथा परम् ॥८॥
बिल्वं च सकलं लोकमपां सारामृतं तथा॥
पद्मं लक्ष्मीकरे विद्धि विभवं द्विजपुङ्गव ॥९॥
हस्तिद्वयं विजानीहि शंखपद्मावुभौ निधी॥
समुत्थिता वा कर्तव्या शंखाम्बुजकरा तथा ॥१०॥
समुक्षिता महाभागा पद्मे पद्मान्तरप्रभा॥
द्विभुजा चारुसर्वांगी सर्वाभरणभूषणा ॥११॥
द्वौ च मौलिचरौ मूर्ध्नि कार्या विद्याधरौ शुभौ ॥१२॥
कराभ्यां मौलिलग्नाभ्यां दक्षिणाभ्यां विराजितौ॥
कराभ्यां खड्गधारिभ्यां देवीवीक्षणतत्परौ ॥१३॥
राजश्रीः स्वर्गलक्ष्मीश्च ब्राह्मी लक्ष्मीस्तथैव च॥
जयलक्ष्मीश्च कर्तव्या तस्या देव्याः समीपगाः ॥१४॥
सर्वाः सुरूपाः कर्तव्यास्तथा च सुविभूषणाः ॥१५॥
लक्ष्मीः स्थिता सा कमले तु यस्मिँस्तां केशवं विद्धि महानुभाव॥
विना कृता सा मधुसूदनेन क्षणं न सन्तिष्ठति लोकमाता ॥१६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लक्ष्मीरूपनिर्माणो नाम द्व्यशीतितमोऽध्यायः॥८२॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP