संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२२

खण्डः ३ - अध्यायः ०२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
स्वस्थमन्दालसक्रान्तं प्रस्थालसमथापि च॥
विष्कम्भितं तत्कटुकं मुक्तजानु तथा समम् ॥१॥
जानूगतं विमुक्तं च स्थानकान्युपवेशने॥
विष्कुम्भिताञ्चितौ पादौ वक्षः किञ्चित्समुन्नतम् ॥२॥
हस्तौ कट्यूरुविन्यस्तौ स्वस्थौ स्वस्थोपवेशने॥
एकः प्रसारितः पादस्त्वन्यश्चैवासनाश्रितः ॥३॥
पार्श्वं नतं तथा कार्यं स्थानं मन्दालसं तु तत्॥
चिन्तायां तु तथौत्सुक्ये निर्वेदे विरहे तथा ॥४॥
विषादेषु सदा देयं स्थानमेतत्प्रयोक्तृभिः॥
चिबुकापाश्रितौ हस्तौ बाहुशीर्षाचितं शिरः ॥५॥
सर्वाभिनयनं चैव विज्ञेयं क्लान्तनायकम्॥
बलिना निग्रहीतस्य रिपुणा खण्डितस्य च ॥६॥
शोकम्लानस्य च तथा स्थानमेतद्विनिर्दिशेत्॥
ग्रहौ हस्तौ विमुक्तं च शरीरमलसं तथा ॥७॥
खेदालसं तथा चक्षुर्यत्र स्वस्थालसं तु तत्॥
श्रमे ग्लानौ मदे चैव मूर्च्छाया व्यथिते तथा ॥८॥
मोहे प्राणभये चैव स्थानमेतत्प्रयोजयेत्॥
विष्कुम्भिताञ्चितौ पादौ कुरु विष्कुम्भितौ भुजौ ॥९॥
निमीलितं तथा चक्षुः स्थाने विष्कुम्भिता सति॥
स्ववक्षोगतया दृष्ट्या योगे ध्याने विधीयते ॥१०॥
स्वभावसंस्थया चैव सभ्यानामुपवेशने॥
समौ पादौ समाधाय समं यदुपदिश्यते ॥११॥
अस्पष्टभूतलं चैव ज्ञेयं मुकुटकासनम्॥
पित्र्ये समाधौ जप्ये च होमादिकरणेषु च ॥१२॥
एतत्स्थानं विधातव्यं यथागमनकर्मणि॥
एकं जानु यदास्ये च महीपृष्ठे विधीयते ॥१३॥
ज्ञातव्यं भूमिपश्रेष्ठ मुक्तजानुकमासनम्॥
एतत्कृतव्यलीकानां प्रियाणां सम्प्रसादने ॥१४॥
मज्जने कुटिलानां च तथा भूम्यनुलेपने॥
महीगताभ्यां जानुभ्यां स्थानं जानुगतं भवेत ॥१५॥
राज्ञां विज्ञापने कार्यं सुराणां चैव पूजने॥
भूमौ यदूर्ध्वं पतनं तद्विमुक्तमिति स्मृतम् ॥१६॥
प्रहारतः प्रयोक्तव्यमावेशे क्रन्दने तथा॥
भद्रासनं तु देवानां राज्ञां सिंहासनं भवेत ॥१७॥
रूप्यासनं तु दातव्यं सांवत्सरपुरोधसोः॥
वेत्रासनममात्यानां मन्त्रिणां तु तथा भवेत ॥१८॥
मन्दासनं तु दातव्यं सेनानीयुवराजयोः॥
मुनीनां च द्विजानां च तथा सब्रह्मचारिणाम् ॥१९॥
बृसी देया महाराज ये चान्ये नियमे स्थिताः॥
स्थानीयाः पुरुषा ये च मुख्याः पौराश्च ये तथा ॥२०॥
वणिजश्च तथा मुख्यास्तेषां भवति पीठिका॥
वेशस्त्रीणां कुमाराणां तथा भृत्यजनस्य च ॥२१॥
मसूरकं तु दातव्यं शेषे भूम्यासनं भवेत्॥
सिंहासनं विना राजन्गृहे स्वच्छन्दमानसम् ॥२२॥
नैकासनं स्याद्गुरुणा तु राजन्रथे गजे वापि शिलातले च॥
नैकासने स्याद्गुरुणा तु दोषोऽथ वातिदीर्घे फलके च नित्यम् ॥२३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आसनवर्णनो नाम द्वाविंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP