संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५४

खण्डः ३ - अध्यायः १५४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम्॥
चैत्रशुक्लतृतीयायां स्नानमभ्यङ्गपूर्वकम् ॥१॥
कृत्वा शुक्लाम्बरो राजञ्शुक्लमाल्यानुलेपनः॥
तिष्ठेद् घृतौदनाहारो भूमौ स्वप्याच्च तां निशाम् ॥२॥
चतुर्थ्यां च तथा स्नानं बहिर्गत्वा समाचरेत॥
पद्मिन्यां च विशेषेण ततः शुक्लाम्बरः शुचिः ॥३॥
लक्ष्मीं सम्पूजयेत्पद्मे कृतकेऽकृतकेऽपि वा॥
शुक्लेन गन्धमाल्येन घृतदीपेन चा प्यथ ॥४॥
दध्ना च परमान्नेन आर्द्रकेण गुडेन च॥
इक्षुणेक्षुविकारैश्च लवणेन च भूरिणा ॥५॥
स्वशक्त्या च महाराज भूयसा बलिक र्मणा॥
श्रीसूक्तेन ततो वह्नौ पद्मानि जुहुयाच्छुचिः ॥६॥
तदलाभे च बिल्वानि तदलाभे तथा घृतम्॥
ब्राह्मणान्गोरसप्रायं घृतं भूयिष्ठमाशयेत्। ॥७॥
सुवर्णमाषकं दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम्॥
अनाहारस्ततः स्वप्याच्छुचौ देशे यथाविधि ॥८॥
ततस्तु पञ्चमीं प्राप्य पूर्वाह्णे पद्मिनी जले॥
स्नात्वा सम्पूजनं कुर्यात्प्राग्वदेव तथा प्रियः ॥९॥
भूय एव द्विजे दद्यात्पूर्वं कनकमाषकम्॥
पद्माक्षमथ वा बिल्वं प्राश्नीयात्तदनन्तरम्। ॥१०॥
ततो हविष्यमश्नीयाद्वाग्यतो मानवोत्तमः॥
संवत्सरमिदं बिल्वं प्राश्नीयात्तदनन्तरम्॥
संवत्सरमिदं कृत्वा व्रतं पार्थिवसत्तम ॥११॥
फलमाप्नोति विपुलं राजसूयाश्वमेधयोः॥
विना कनकदानेन व्रतमेतत्समाचरेत् ॥१२॥
व्रतान्ते माषकं दद्याद्वह्निष्टोमफलं लभेत्॥
सम्पूज्य सोपवासस्तु शुक्लपक्षस्य पञ्चमीम् ॥१३॥
नित्यमेव श्रियं देवीं श्रियमाप्नोत्यनुत्तमाम्॥
बलमुत्तममाप्नोति रूपमारोग्यमेव च ॥१४ ॥
जगत्प्रधाना वरदा वरेण्या विभावरी सर्वगता नरेन्द्र॥
श्रद्धान्वितः पूजयतीह यस्तु कामानवाप्नोति स सर्वकालम् ॥१९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिविधौ लक्ष्मीव्रतवर्णनो नाम चतुष्पञ्चाशदुत्तरशततमोऽध्यायु ॥१५४॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP