संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४२

खण्डः ३ - अध्यायः २४२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
नात्यर्थहर्षः कार्यस्तु कदाचिदपि पण्डितैः॥
अत्यर्थहृष्टः पुरुषः कार्यं वेत्ति न किञ्चन ॥१॥
सम्पदञ्चञ्चलां प्राप्य हर्षं प्राज्ञो विवर्जयेत्॥
दृष्टा हि बहवो नष्टा लोके सम्पत्प्रलम्बिताः ॥२॥
सम्पत्तौ वा विपत्तौ वा स्वभावं न त्यजेद्बुधः॥
चञ्चलाः सम्पदः सर्वाः स्वभावादेव वै द्विजाः ॥३॥
कस्तासां विश्वसेत्प्राज्ञो वेश्यास्स्त्रीणां यथा तथा॥
संसर्गान्मोहमाप्नोति तासां प्राप्नोति मानवः ॥४॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥५॥
न प्रज्ञा धनलाभाय न जाड्यमसमृद्धये॥
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥६॥
प्राज्ञस्तु सम्यक्चपलां विदित्वा तां प्राप्य हर्षं परिवर्जयेत॥
सम्पद्विनाशे न च दुःखमीयाद्यद्भावि तद्भावि न तस्य नाशः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे हंसगीतासु प्रहर्षदोषवर्णनो नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४२॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP