संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८८

खण्डः ३ - अध्यायः ०८८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
सामान्यमथ वक्ष्यामि प्रासादानां तु लक्षणम्॥
चतुःषष्टिपदं कार्यं देवतायतनं सदा ॥१॥
द्वारं च मध्यमं तस्य समदिक्स्थं प्रशस्यते॥
द्वारं विस्तरतः कार्यं भूपाल द्विगुणोच्छ्रयम् ॥२॥
गृहस्थस्य तु द्वारेण द्वारदेवकुलद्रुमैः॥
अविद्धं तच्च कर्तव्यं नाम्बुस्रावि न कुक्षिमत् ॥३॥
वज्रमध्यं नतं चैव द्वारं यत्नाद्विवर्जयेत॥
मङ्गल्यं रूपकोपेतं तच्च कार्यं प्रयत्नतः ॥४॥
द्वारमानाष्टभागानां प्रतिमां तु सपिण्डिकाम्॥
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥९॥
कटिरष्टमभागोनं द्वारं कार्यं विजानता॥
तृतीयमंशं वसुधा तृतीयांशः कटिर्भवेत् ॥६॥
मंजरी च तृतीयांशः प्रासादस्य महाभुज॥
गर्भं पादेन विस्तीर्ण तथा द्वारं प्रशस्यते ॥७॥
भित्तिर्गर्भाष्टभागोना तथा कार्या विजानता॥
प्रासादोच्छ्रायभागेन चतुर्थेन च शस्यते ॥८॥
वसुधासञ्चरो राजन्कट्यंशद्वितयेन तु॥
नात्यर्थं सङ्कटं कार्यं नाविस्तीर्णं तथैव च ॥९॥
मूलक्रमाद्यथा चोर्ध्वं तथा विस्तारवर्जितम्॥
सोपानं कारयेद्राजन्पार्श्वयोः सिंहभूषणम् ॥१०॥
न मुण्डं न च शूलाग्रं नानतं कारयेत्तथा॥
समं मनोहरं कार्यं तथा माङ्गल्यरूपवत् ॥११॥
सुधासुसितशृङ्गं च विचित्रकटिभूषणम्॥
द्वारयोः सप्रतीहारं समगर्भगृहं समम्॥
भद्रपीठनिभं सौम्यं श्लक्ष्णं घातविवर्जितम् ॥१२॥
एवंविधे देवगृहे निविष्टा शुभावहा स्यात्प्रतिमा सदैव॥
नित्यं तथा सन्निहिता नृवीर तस्मात्प्रयत्नादिदमेव चिन्त्यम् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्यप्रासादलक्षणो नामा ष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP