संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२३

खण्डः ३ - अध्यायः २२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वैश्रवण उवाच ॥
ब्राह्मे ब्रह्माणमभ्यर्च्य ब्रह्मलोकं प्रपद्यते॥
अश्वमेधमवाप्नोति प्राजापत्ये प्रजापतिम् ॥१॥
स्वर्गरोचे तथा स्वर्गं स्वर्गलोकं प्रपद्यते॥
चक्ररोचे तथा चक्रं वैष्णवन्तु सुदर्शनम् ॥२॥
द्वादशारं नरः कृत्वा वर्णकैः ससुगन्धिभिः॥
सम्पूज्य वत्सरस्यांते सौवर्णं विनिवेदयेत् ॥३॥
वासुदेवाय देवाय द्वितीयं ब्राह्मणाय च॥
रिपून्स जयते सर्वान्बाह्यानाभ्यन्तरानपि ॥४॥
चक्रमप्रतिमं तस्य सर्वगं च तथा भवेत्॥
नाप्नोति नारकं दुःखं स्वर्गलोकं च गच्छति ॥५॥
वानस्पत्ये तथा रोचे पूजयित्वा वनस्पतिम् ॥६॥
उद्यानफलमाप्नोति वाजपेयस्य मानवः॥
वानस्पत्यं च सफलं तथा सर्वत्र विन्दति ॥७॥
अन्नरोचे तथैवान्नं वासुदेवं समर्चयेत्॥
क्षेत्रमध्यगतस्त्वन्नं प्राप्नोति बहु मानवः ॥८॥
परलोके तथा तृप्तिं स्वर्गलोके तथैव च॥
अहते वासरे चाह्नि वासरं पूज्य मानवः ॥९॥
निवेद्य वासुदेवाय देवं सङ्कर्षणं विभुम्॥
आरोग्यरूपलावण्यसौभाग्यानि समश्नुते ॥१०॥
कालरोचे नरः कालं सम्यक्सम्पूज्य धर्मवित्॥
मरणे स्मृतिमाप्नोति मृतश्च परमां गतिम् ॥११॥
आग्नेये पूजयेद्वह्निं सर्वांल्लोकान्समाप्नुयात्॥
सर्वाणि वाग्निकर्माणि सिध्यन्त्यस्य न संशयः ॥१२॥
अपः संपूजयन्नाथे रत्नमाप्नोत्यथाम्बुजम्॥
जलकर्माणि सर्वाणि सिद्ध्यन्त्यस्य न संशयः ॥१३॥
सौरे सूर्यमथाभ्यर्च्य विरोगत्वमवाप्नुयात्॥
चन्द्रे चन्द्रं समभ्यर्च्य परमां निर्वृतिं लभेत।१४।
गोरोचे गां समभ्यर्च्य सुरभिं लोकमातरम्॥
गाः समाप्नोति धर्मज्ञ तथा तल्लोकमेव च ॥१५॥
रोचभं नियतेः प्राप्य नियतिं तु समर्चयन्॥
दीर्घजीवितमाप्नोति यत्रयत्राभिजायते ॥१६॥
वैष्णवे विष्णुमभ्यर्च्य विष्णुलोकं प्रपद्यते॥
रौद्रे रुद्रमथाभ्यर्च्य तल्लोकं प्रतिपद्यते ॥१७॥
पुत्रानाप्नोति कौमारे कुमारं चार्चयन्नरः॥
पितॄणामर्चनं कृत्वा पितृरोचे समाहितः ॥१८॥
पूजामभीष्टामाप्नोति पितृलोकं च गच्छति॥
वारुणे वरुणं देवमश्वानाप्नोति पूजयन् ॥१९॥
अनन्ते च तथानन्तं पूजयित्वा महीधरम्॥
अनन्तं फलमाप्नोति कर्मणः सुकृतस्य च ॥२०॥
वायव्ये वायुमभ्यर्च्य वाणिज्ये लाभमाप्नुयात्॥
याम्ये यममथाभ्यर्च्य नाप्नोति नरकाद्भयम् ॥२१॥
सारस्वतेन चाभ्यर्च्य द्विज देवीं सरस्वतीम्॥
विद्यां यथेष्टामाप्नोति तया वाग्मी च जायते ॥२२॥
श्रीरोचे श्रियमभ्यर्च्य श्रियं विन्दति शोभनाम्॥
मदीये च तथा रोचे मां च सम्पूजयन्नरः ॥२३॥
धनभाग्भवते सो हि यत्रयत्राभिजायते॥
शैलरोचे तथा शैलं पूजयित्वा सुखी भवेत् ॥२४॥
भूरोचे भुवमभ्यर्च्य भुवमाप्नोत्यनुत्तमाम्॥
वेदानामर्चनं कृत्वा वेदरोचे समाहितः ॥२५॥
वेदानाप्नोति पुरुषो यज्ञानपि नरा धिपः॥
पौरुषे च तथा रोचे जले पुरुषमर्चयन् ॥२६॥
सर्वान्कामानवाप्नोति मोक्षोपायं च विन्दति॥
रूपेण हीनं स्पर्शेन हीनं गन्धेन हीनं च रसेन हीनम्॥
शब्देन हीनं पुरुषं पुराणं सम्पूजयन्मोक्षपथं प्रयाति ॥२७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे प्रति रोचफलनिरूपणो नाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥२२३॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP