संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१६

खण्डः ३ - अध्यायः ०१६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
काव्ये येऽभिहिता दोषाः कैश्चित्तेभ्यः प्रहेलिका॥
कर्तव्याश्च तथैवान्यास्तासां वक्ष्यामि लक्षणम् ॥१॥
श्लोकेनैकेन वा द्वाभ्यां कर्तव्या तु नरोत्तम॥
न कर्तव्याश्च ता राजन्बहुश्लोकनिबन्धनाः ॥२॥
तस्यां मात्रावशादर्थो गोप्यते सा समागता॥
पर्यायवचनाद्यस्यां वन्दिता सा प्रकीर्तिता ॥३॥
वृत्तान्तगोपिकान्ताया पदैर्व्यवहितैर्भवेत्॥
अप्रसिद्धैस्तु पर्यायैर्दुःखिता नाम सा स्मृता ॥४॥
कल्पनागोपितार्थात्तु कथिता परिहासिका॥
समानरूपतुल्यार्थो शब्दैरन्यैः प्रकीर्तिता ॥५॥
दुर्बोधाक्षरबन्धा च परुषा नामतः स्मृता॥
संख्यामात्रसमानत्वात्संख्याताख्या तथोच्यते ॥६॥
अर्थान्तरान्कल्पनया कल्पिता च तथोच्यते॥
अन्यस्य संज्ञायामोहान्नमान्तरितसंज्ञिता ॥७॥
अर्थव्यामोहतः प्रोक्ता निभृता च महानृप॥
समानशब्दा कथिता तुल्यशब्दनिबन्धना ॥८॥
अर्थानुलोमदुर्बोधा व्यामूढेति तथोच्यते॥
गुच्छाख्या कथिता वृत्ते नानाबन्धनि बन्धना ॥९॥
एकोभयबहुच्छन्ने यथार्थपरिगोपिते॥
संकीर्णा सम्भवोपेता या तदर्थकरी भवेत् ॥१०॥
तदर्थकारी यत्रार्थो ज्ञायतेऽन्यार्थकामुकः॥
राजञ्शब्दवशात्सा च कथिता व्यभिचारिणी ॥११॥
उक्तेर्थे वृत्तबन्धेन मात्राभिः स्थापिता तथा॥
नष्टार्था वा च सा प्रोक्ता वृत्तबन्धनिदर्शिता ॥१२॥
नष्टाक्षरा तु कथिता विनैकेन तदार्थदा॥
अन्यार्थता तथैवोक्ता वर्णभ्रष्टा नरेश्वर ॥१३॥
कालस्य रूपरूपाणां व्याख्यानेन तदार्थदा॥
बीजमात्रेण लेशाख्या भूमिपाल प्रकीर्तिता ॥१४॥
अश्लीलमेतास्वपि नैव कार्यं तद्वर्ज्यमाहुः कवयो नरेन्द्र॥
उद्वेजनीयं तु सतां तदुक्तमश्लीलबन्धं सुखदं न काव्यम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रहेलिकालक्षणो नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP