संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५४

खण्डः ३ - अध्यायः ०५४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
सुपर्णस्य च तालस्य मकरस्य मृगस्य च॥
मरुतां रूपनिर्माणं श्रोतुमिच्छामि भार्गव ॥१॥
मार्कण्डेय उवाच॥
तार्क्ष्यो मारकतप्रख्यः कौशिकाकारनासिकः॥
चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्ततः ॥२॥
गृध्रोरुजानुचरणः पक्षद्व्यविभूषणः ॥३॥
प्रभासंस्थानर्सौवर्णः कलापेन विवर्जितः॥
छत्रं च पूर्णकुम्भं च करयोस्तस्य कारयेत् ॥४॥
करद्वये तु कर्तव्यं तथास्य रचिताञ्जलिः॥
तथास्य भगवान्पृष्ठे छत्रकुम्भधरौ करौ ॥५॥
न कर्तव्यौ तु कर्तव्यौ देवपादवरावुभौ॥
किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥६॥
तालस्तालाकृतिः कार्यो मकरो मकराकृतिः॥
उपरिष्टात्तथैवास्य कार्यो ऋग्यवदच्युतः ॥७॥
मनो जगत्तथा कामं कर्म चैते क्रमात्स्मृताः॥
वासुदेवोच्युतश्चैव प्रद्युम्नश्च महाभुजः॥
तथा चैवानिरुद्धश्च क्रमेणैते प्रकीर्तिताः ॥८॥
तार्क्ष्यः सतालो मकरस्तथार्च्यो देवेश कीनाशजलार्थनाथः॥
अग्न्यर्कतोयाधिपपत्रिनाथस्त एव लोकेषु बुधैः प्रदिष्टाः ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गरुडरूपनिर्माणो नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP