संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३४

खण्डः ३ - अध्यायः १३४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
द्वितीयं तव वक्ष्यामि शृणु त्रैविक्रमं व्रतम्॥
भूमिस्तु प्रथमः पादो ह्यन्तरिक्षं तथा परम् ॥१॥
तृतीयश्च दिवं ज्ञेयो देवदेवस्य चक्रिणः॥
भुवः पतिः स्मृतो वह्निरन्तरिक्षं तथा परम् ॥२॥
दिवः पतिस्तथा सूर्यस्तच्च विष्णोः पदत्रयम्॥
ज्येष्ठशुक्लतृतीयायां सोपवासो जितेन्द्रियः ॥३॥
कल्ये कूपजलस्नातो वह्निं सम्पूजयेन्नरः॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥४॥
नदीजले तत स्नात्वा मध्यं प्राप्ते दिवाकरे॥
वायोः संपूजनं कृत्वा सक्तून्दद्याद्द्विजातये ॥५॥
स्नात्वा च सरसीतोये सायं सूर्यं समर्चयेत्॥
ततश्च नक्तं चाश्नीयाद्धविष्यं वाग्यतः शुचिः ॥६॥
एवं संवत्सरे राजन्कृत्वा व्रतमतन्द्रितः॥
समापयित्वा वैशाखे दद्याद्विप्रेषु दक्षिणाम् ॥७॥
ताम्रं रूप्यं सुवर्णं च त्रीणि लोहानि यादव॥
वासोयुगं च सोष्णीषं त्रीणि वासांसि चाप्यथ ॥८॥
उपानहो युगं छत्रं त्रीणि चेमानि भक्तितः॥
एतत्संवत्सरं कृत्वा नरस्त्रैविक्रमं व्रतम् ॥९॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥१०॥
देवराजगणाढ्येन वीणामुरजनादिना॥
अन्नमायुः सुताश्चैव प्रसन्ने गरुडध्वजे ॥११॥
आक्रान्तलोकत्रितयस्य तस्य पदत्रयं धर्मभृतां वरिष्ठ॥
संपूज्य कामान्मनुजा लभन्ते गतिं यथेष्टां पुरुषप्रवीर ॥१२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वितीयत्रैविक्रमव्रतकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३४॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP