संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४३

खण्डः ३ - अध्यायः २४३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
मानं विवर्जितं सद्भिर्वर्जनीयं सदा बुधैः॥
मानेन नष्टा बहवो राजानः सपरिच्छदाः॥
ब्राह्मण्याच्च परिभ्रष्टा ब्राह्मणा बहवो द्विजाः॥
सर्वदोषास्पदं मानं लोकद्वयविवातकम् ॥२॥
युक्तायुक्तं न जानाति मानेन पुरुषाधमः॥
मानग्रस्तो नरो लोके गुरूनप्यवमन्यते ॥३॥
करोत्यकार्यं पुरुषो मानेन च तथा ध्रुवम्॥
मानग्राहगृहीतस्य नास्ति मोक्षः कथञ्चन ॥४॥
कामः क्रोधश्च लोभश्च सर्वजन्तु विनाशकाः॥
मानग्रस्तं तु पुरुषमाविशन्ति द्विजोत्तमाः ॥५॥
मानाभिभूतश्च तथा नरकं प्रतिपद्यते॥
अप्रतिष्ठन्नरश्रेष्ठास्तस्मात्तं परिवर्जयेत् ॥६॥
शत्रुर्न मानेन समोऽस्ति पुंसो मानेन नाशं व्रजतीह जन्तुः॥
मानो हि तस्मात्परिवर्जनीयो बुधैस्तु नित्यं नरकस्य मार्गः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मानदोषवर्णनो नाम त्रिचत्वारिंशदुत्तरद्विशत तमोऽध्यायः ॥२४३॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP