संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४५

खण्डः ३ - अध्यायः १४५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
नित्यं चतुर्षु मासेषु श्रावणाद्येषु यादव ॥१॥
चतुःसागरचिह्नानि पूर्णकुम्भानि पूजयेत॥
चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः॥
स्नानं समाचरेन्नित्यं नदीतोयेषु यादव ॥२॥
होमं च प्रत्यहं कुर्याद् गव्येन पयसा तथा॥
तानि कुम्भानि विप्रेभ्यः प्रत्यहं विनिवेदयेत् ॥३॥
सोपहाराणि धर्मज्ञ भक्त्या शक्त्या तथैव च॥
नक्तं च प्राशनं कुर्य्यात्सततं तैलवर्जितम् ॥४॥
कार्तिकस्यावसानेऽह्नि भोजयित्वा द्विजोत्तमान्॥
धेनुं दत्त्वा च विप्राय नाकपृष्ठे महीयते॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥५॥
मानुष्यमासाद्य महीपतिः स्याद्भुक्त्वा महीं सागरमेखलान्ताम्॥
तत्रापि धर्मस्य पतिर्निविष्टो भवत्यरोगश्च बलेन युक्तः ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुचतुर्मूर्तिकल्पे सागरव्रतवर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४५॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP