संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८५

खण्डः ३ - अध्यायः २८५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
स्थानस्य महतः प्राप्तौ यन्मूलं द्विजसत्तम॥
तदस्माकं समाचक्ष्व सर्वं प्रत्यक्षलक्षणम् ॥१॥
 ॥हंस उवाच॥
प्राप्नुवंति नराः सर्वे व्यवसायपुरःसराः॥
व्यवसायद्वितीयानां नास्ति लोके सुदुर्लभम् ॥२॥
व्यवसायः परो बन्धुः सहायस्तदनंतरम्॥
तेन युक्तः पुमान्सम्यक्प्राप्नोतीति विनिश्चितम् ॥३॥
धर्मे चार्थे च कामे च मोक्षे च ऋषिसत्तमाः॥
भाजनन्तु सदा ज्ञेयो नरस्तु व्यवसायवान् ॥४॥
व्यवसायविहीनानां स्वल्पोप्यर्थोऽस्ति दुर्लभः॥
व्यवसायविहीनानामलसानां दुरात्मनाम् ॥५॥
करप्राप्तोऽपि सहसा क्षिप्रमर्थो विनश्यति॥
व्यवसायविहीनस्तु स्थाणुना नातिरिच्यते ॥६॥
तस्मान्नरा ये व्यसनाय युक्तास्ते कामभाजः कथितास्तु लोके॥
तेषामयं चैव परश्च लोकस्तेषां तथा मोक्षपथो न दूरे ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु व्यवसायवर्णनो नाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ॥२८५॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP