संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५५

खण्डः ३ - अध्यायः १५५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथापरं प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव॥
शङ्खं चक्रं गदां पद्मं पृथिवीं च महाभुज ॥१॥
गन्धैर्मण्डलकान्कृत्वा पञ्चपञ्चसु पूजयेत्॥
चैत्रशुक्लान्तमारभ्य पञ्चमीप्रभृतीर्नृप ॥२॥
सोपवासो बहिः स्नातस्तथा शुक्लाम्बरः शुचिः॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥३॥
सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदसि॥
सर्वेषामेव देवानां नामभिस्तु तथा घृतम् ॥४॥
ब्राह्मणान्भोजयेच्चात्र तदा मधुरभोजनम्॥
संवत्सरमिदं कृत्वा व्रतान्ते वस्त्र पञ्चकम् ॥५॥
अश्वमेधमवाप्नोति पञ्चरात्रविदे ददत्॥
पञ्चवर्णं च राजेन्द्र राजसूयफलं लभेत् ॥६॥
मानुष्यमासाद्य भवत्यरोगो बलान्वितो धर्मपरो विनीतः॥
धनेन रूपेण सुखेन युक्तो राजाधिराजोऽप्यथ वा नरेन्द्रः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिव्रते आयुधादिव्रतनिरूपणो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥१५५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP