खण्डः ३ - अध्यायः २०८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच॥
भगवन्कर्मणा केन शीलवान्पुरुषो भवेत्॥
कुलजातिश्रुतिभ्यश्च शीलमेव विशिष्यते ॥१॥
मार्कण्डेय उवाच॥
आग्रायण्यामतीतायां मासमेकं दिनेदिने॥
पूर्ववत्पूजयेद्देवं वराहमपराजितम् ॥२॥
घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धविः॥
घृतं द्विजेभ्यो दद्याच्च घृतमेव निवेदयेत् ॥३॥
त्रिरात्रोपोषितः पौष्यां घृतपात्रेण च द्विजान्॥
पूजयेत्ससुवर्णेन यथाशक्ति नराधिप ॥४॥
कृत्वा व्रतं मासमिदं मयोक्तं चासाद्य नाकं सुचिरं मनुष्यः॥
मानुष्यमासाद्य च शीलवान्स्यात्प्राप्नोति पुष्टिं चिरजीवितं च ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे शीलावाप्तिव्रतवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः ॥२०८॥
N/A
References : N/A
Last Updated : January 26, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP