संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९३

खण्डः ३ - अध्यायः २९३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
दाक्षिण्यं परमं लोके नृणां संवननं परम्॥
दाक्षिण्ययुक्तस्य तथा परेषां प्रियकारिता ॥१॥
प्रियाण्याचरते यस्तु परेषां मनुजोत्तमः॥
समाप्नोति प्रियाण्येव लोकयोरुभयोर्द्विजाः ॥२॥
प्रत्यक्षं च परोक्षं च परेषामाचरेत्प्रियम्॥
प्रियेण विप्रियं हंति प्रियेण प्रियमाप्नुयात् ॥३॥
मृदुना दारुणं हन्ति मृदुना हंति मार्दवम्॥
सर्वं हि मृदुना हन्ति तस्मात्तीक्ष्णतरो मृदुः ॥४॥
मृदोरिह वदान्यस्य देवा निघ्नन्ति शात्रवान्॥
अभिचारः स शत्रूणां नरस्य मृदुता तथा ॥५॥
नरेण मृदुना दग्धा मार्दवेनाभितस्तु ये॥
न प्ररोहंति ते विप्रा बीजा दग्धा यथा तथा ॥६॥
दाक्षिण्यमेकं सुभगत्वहेतुर्दाक्षिण्यमेकं त्रिदिवस्य हेतुः॥
दाक्षिण्यमास्थाय जयेदरातीन्दाक्षिण्ययुक्तस्तु सदा भवेच्च ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दाक्षिण्यवर्णनो नाम त्रिनवत्यधिकद्विशततमोऽध्यायः ॥२९३॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP