संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६९

खण्डः ३ - अध्यायः २६९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
क्षमा धर्मः क्षमा सत्यं क्षमा शौचं क्षमा बलम्॥
क्षमा यज्ञाः क्षमा दानं क्षमा च परमं तपः ॥१॥
आकृष्टस्ताडितो वापि परेषां यस्तितिक्षते॥
तस्मात्सुकृतमादत्ते दुष्कृतं च प्रयच्छति ॥२॥
यः क्षमावान्स धर्मात्मा क्षमयैव द्विजोत्तमाः॥
आक्रोष्टारं निर्दहति स्वर्गलोकं च गच्छति ॥३॥
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते॥
यदेनं क्षमया युक्तं त्वशक्तं मन्यते जनः ॥४॥
विज्ञेयः सोऽपि दोषोऽस्य द्विजेन्द्राः स महान् गुणः॥
तस्मात्पुण्यसमादानाद् दुष्कृतस्य समर्पणात् ॥५॥
मृतः क्षमावान्पुरुषो ब्रह्मलोकं प्रपद्यते॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥६॥
प्राप्नोति कामान्दिवि चेह मुख्यान्संवत्सराणां नियुतानि विप्राः॥
सर्वंसहः क्षान्तिपरो मनुष्यस्त्वतः क्षमावान्सततं नरः स्यात् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्षमागुणवर्णनो नामैकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥२६९॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP