संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५८

खण्डः ३ - अध्यायः ०५८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
वायुरम्बरवर्णस्तु तदाकारोम्बरो भवेत्॥
वाय्वापूरितवस्त्रश्च द्विभुजो रूपसंयुतः ॥१॥
गमनेच्छा शिवा भार्या तस्य कार्या च वामतः॥
कार्यो गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज ॥२॥
तथैव देवी कर्तव्या शिवा परमसुन्दरी॥
व्याधितास्यस्तथा कार्यो देवो व्याकुलमूर्धजः ॥३॥
वायुराश्रयतो धत्ते गन्धवर्णादिकं यतः॥
तस्मादञ्जनवर्णस्तु गमनस्य समाश्रयात् ॥४॥
तदेव वसनं तस्य गगनं परिकीर्तितम्॥
या गतिः सा शिवा देवी योऽनिरुद्धश्च सोऽनिलः ॥९॥
एतद्धि रूपं पवनस्य राजँस्तवोदितं स वै जगन्मयस्य ।॥
देव्याः शिवायाश्च महानुभाव परं पवित्रं विदितं द्विजानाम ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP