खण्डः ३ - अध्यायः २६२
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
यज्ञेन देवा जीवन्ति यज्ञेन पितरस्तथा॥
देवाधीनाः प्रजा सर्वा यज्ञाधीनाश्च देवताः ॥१॥
यज्ञो हि भगवान्विष्णुर्यत्र सर्वं प्रतिष्ठितम्॥
यज्ञार्थं पशवः सृष्टा देवास्त्वौषधयस्तथा ॥२॥
यज्ञार्थं पुरुषाः सृष्टाः स्वयमेव स्वयंभुवा॥
यज्ञश्च भूत्यै सर्वस्य तस्माद्यज्ञपरो भवेत् ॥३॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः॥
धनं यद्यज्ञशीलानां देवस्वं तं विदुर्बुधाः ॥४॥
ओषधीनां पशूनाञ्च यज्ञ एव परायणम्॥
सयूथ्यश्च सकुल्यश्च नाकपृष्ठे महीयते ॥५॥
पशुस्तु प्रोक्षितो यज्ञे तथेवौषधयो द्विजाः॥
यज्ञोपयुक्ता मोदन्ते त्रिदिवे नात्र संशयः ॥६॥
यज्ञेन सम्यक्पुरुषस्तु नाके समृज्यमानस्त्रिदशैर्महात्मा॥
प्राप्नोति सौख्यानि महानुभावास्तस्मात्प्रयत्नेन यजेत यज्ञैः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यज्ञप्रशंसावर्णनो नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥२६२॥
N/A
References : N/A
Last Updated : January 28, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP