संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४५

खण्डः ३ - अध्यायः २४५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
लुब्धो दोषान्न जानाति लुब्धः पापं न बुध्यते॥
नरो लोभसमाविष्टो वशमेति तथापदाम् ॥१॥
जीर्यन्ति जीर्यतः केशा नखा जीर्यन्ति जीर्यतः॥
जीर्यन्ति जीर्यतो दन्तास्तृष्णा त्वेका न जीर्यते ॥२॥
तृष्णाखुनिरगाधेयमपूर्वा द्विजपुङ्गवाः॥
पूर्यमाणापि सततं खन्यतेऽभ्यधिकं तया ॥३॥
न तां पूरयितुं शक्तः कदाचिदपि कश्चन॥
न तां पूरयितुं शक्ताः सर्वे सन्तोषमाश्रिताः ॥४॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः॥
नालमेकस्य पर्याप्तमिति मत्वा शमं व्रजेत ॥५॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः॥
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥६॥
लुब्धस्य बन्धुर्न सुतो गुरुर्वा लुब्धस्य लोका न च लोकयात्रा॥
लुब्धस्य दोषाः सकलाः प्रदिष्टा लोकद्वये दुःखकराः सुरौघाः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोभदोषवर्णनो नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४५॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP