संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१३

खण्डः ३ - अध्यायः ०१३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अन्त्यलिङ्गेऽथ वर्तन्ते ये शब्दा नृपसत्तम॥
तानहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥१॥
जलनामानि सर्वाणि विनापो यदुसत्तम॥
भ्रान्ताश्च पूर्वं येनोक्तास्ते नपुंसकवृत्तयः ॥२॥
द्व्यृचो नान्तास्तथा ये च नोक्तास्ते यदुसत्तम॥
असत्यं च धनं सर्वं जरसोऽन्यत्र यादव ॥३॥
नपुंसके च वर्तन्ते शब्दा लोचनवाचकाः ॥४॥
सर्वाणि पुष्पनामानि कथितानि नपुंसके॥
शरीरमस्थि दधि च सक्थि वा गुदजानुनी ॥५॥
श्मश्रुकूले कुलं पर्णं लोहनामानि यानि च॥
अहर्निशं शकृत्सक्थि धनुः शोणितदारुणी ॥६॥
क्षीरं विषामृते षण्डं फलमूलमलानि च॥
पुरं मधु खलं नालं चीवरं चीरमम्बरम् ॥७॥
गगनं घनमाकाशं सुखदुःखपदानि च॥
कूपबीजेऽथ पललं तल्पसद्म शवानि च ॥८॥
निमित्तचित्तपित्तौघतक्रशुक्रभयानि च॥
तीर्थपञ्जरचेलानि फलद्वन्द्वाक्षराणि च ॥९॥
धान्यश्मशानरत्नाग्रतल्परत्नयुगानि च॥
गोपपत्तनसैन्यार्धमङ्गलायुधखानि च ॥१०॥
नगरं हरितालं च तिमिरं पलितं विषम्॥
श्मशानं मिथुनं तत्त्वं किल्बिषं विदलं हिमम् ॥११॥
वृन्दं कुतूहलं शीधु शरावं शिखरं पलम्॥
वृत्तं च मुकुटं पण्यं मलमंशुकमेव च ॥१२॥
इंद्रियं युगलं कूटं कपालं शूलशेखरे॥
पातालं विवरं रन्ध्रं छिद्रमाकाशमेव च ॥१३॥
तृणं शुभ्रमिरं चैव कुङ्कुमं शुष्कचीवरम्॥
मृणालमजितं खड्गं तुहिनं द्वारमास्पदम ॥१४॥
राष्ट्रं तलं किट्टकफे तथायुः स्थूलं खलीनं पललं पलालम्॥
काष्ठं रणं पार्श्वकुकुन्दरे च सन्देहके चेव नपुंसकं स्यात् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP