संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५९

खण्डः ३ - अध्यायः २५९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
ब्रह्मचर्याच्च्युतो यस्तु नरस्सन्तानवर्जितः॥
सुतप्ततपसोप्यस्य गतिर्लोके न विद्यते ॥१॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते॥
तथा पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥२॥
नाकलोकमवाप्नोति दुहित्रा द्विजसत्तमाः॥
दौहित्रेण तथा लोकान्नरो याति प्रजापतेः ॥३॥
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः॥
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥४॥
पुत्रदौहित्रयोर्लोके विशेषो नोपपद्यते॥
दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्रवत् ॥५॥
तस्माच्छेत्ता कुलस्य स्यात्स याति नरकं ध्रुवम्॥
पुत्रपौत्रैः परिवृतो नाकलोके महीयते ॥६॥
सन्तानवानेव नरस्तु कीर्त्या युक्तस्तथा स्यात्परया द्विजेन्द्राः॥
कीर्त्या युतः स्वर्गमथ प्रयाति सन्तानवान्यः पुरुषः प्रधानः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु सन्तानप्रशंसा वर्णनो नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥२५९॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP