संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७६

खण्डः ३ - अध्यायः २७६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
श्रद्धान्वितेन मनसा यद्यत्किञ्चित्समाचरेत्॥
तत्तद्बहुफलं तस्य जायते लोकयोर्द्वयोः ॥१॥
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥
देवश्रद्धा नरा देवाः कथिता देवयाजिनः ॥२॥
पितृश्रद्धाश्च पितरो दैत्ये श्रद्धा दितेः सुताः॥
पापश्रद्धास्तथा पापा विज्ञेया नरकङ्गमाः ॥३॥
तस्माच्छ्रद्धां समास्थाय धर्मं धर्मी समाचरेत्॥
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया॥
आस्तिक्यभावमास्थाय नरः श्रद्धासमन्वितः ॥४॥
नित्यं पुण्यानि कुर्वीत पापानि परिवर्जयेत्॥
पुण्यं बहुफलं तस्य श्रद्धामास्थाय यत्कृतम्॥८५॥
श्रद्धा पवित्रं परमं हि लोके श्रद्धा शरीरं पुरुषस्य चोक्तम्॥
श्रद्धां समास्थाय नरश्च कृत्वा पुण्यानि पुण्यां गतिमाप्नुवन्ति ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु श्रद्धाफलवर्णनो नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥२७६॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP