संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५७

खण्डः ३ - अध्यायः २५७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
स्वाध्यायसेवाकर्त्तव्या नित्यमेव विजानता॥
स्वाध्यायेन तदाप्नोति यत्किञ्चिन्मनसेच्छति ॥१॥
पयसा मधुना दध्ना मांसेन च यथाक्रमम्॥
ऋचो यजूंषि सामानि तथैवाथर्वणं पठेत् ॥२॥
पितॄणां तर्पणं कुर्याद्वेदाङ्गेन च सर्पिषा॥
उपवेदानपि पठँस्तर्पयत्योदनेन तान् ॥३॥
विना स्थानानि सर्वाणि स्वैरेयेण तथा नरः॥
सांख्ययोगं पाञ्चरात्रं तथा पाशुपतं पठन् ॥४॥
क्षीरेण मधुमिश्रेण पितृंस्तर्पयते तथा॥
वाकोवाक्यं पुराणश्च नाराशंस्योऽथ गाथिकाः ॥५॥
स्तोत्राणि च पठन्नित्यं दध्ना च मधुना तथा॥
तस्मात्सर्व प्रयत्नेन द्विजः स्वाध्यायमाचरेत् ॥६॥
स्वाध्याय एवेह तपः पवित्रं स्वाध्याय एवेह तथैव यज्ञः॥
स्वाध्यायवानेव नरः प्रयाति त्रिविष्टपं मोक्षमथाप्यभीष्टम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसं० मुनीन्प्रति हंसगीतासु स्वाध्यायप्रशंसावर्णनो नाम सप्तपञ्चाशदुत्तर द्विशततमोऽध्यायः ॥२५७॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP