संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३३

खण्डः ३ - अध्यायः ०३३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
उत्तानं तु करं कृत्वा चतुरांगुलिकुञ्चितम्॥
अंगुष्ठपार्श्वतो योज्यो भस्ममुद्राप्रकार्तिता ॥१॥
सा तिर्यगुच्छ्रितांगुलिलिङ्गमुद्रा प्रकीर्तिता॥
अंगुल्यस्त्रयः सकोऽस्याग्रांगुष्ठपरिसंचिताः ॥२॥
तर्जनीं प्रसृतां कृत्वा जटामुद्रा प्रकीर्तिता॥
वेत्रमुद्रा यदा तस्यां नेत्रान्ते तर्जनी भवेत ॥३॥
बन्धस्थां तु प्रकुर्वीत चांगुष्ठं प्रसृतं तथा॥
उत्तानं मूर्ध्नि संयोज्यं शशाङ्कं तु विनिर्दिशेत् ॥४॥
अंगुल्यः प्रसृताः सर्वा वर्तुलाः शृङ्गरूपकाः॥
मूर्ध्नि कृत्वा तु तां मुद्रां गोवृषं तु विनिर्दिशेत् ॥५॥
तिर्यक्कृत्वा तु तं हस्तं सर्वसङ्कुचितांगुलिम्॥
अंगुष्ठं मध्यमावेष्ट्य पर्यस्तं तु विनिर्दिशेत् ॥६॥
कनिष्ठिकां सङ्कुचितामंगुष्ठोपरि विन्यसेत्॥
कनिष्ठानामिकामध्ये दक्षांगुष्ठं प्रकीर्तितम् ॥७॥
उत्तानौ तु करौ कृत्वा अन्योन्यान्तरितांगुली॥
कनिष्ठिकान्ते चांगुष्ठमनन्तेति प्रकीर्तिता ॥८॥
उत्तानं दक्षिणं हस्तं त्वधो वामं तथोपरि॥
करजान्योन्यसंयोगाद्धर्मस्य परिकीर्तिता ॥९॥
सा चैव विपरीता तु ज्ञानस्य परिकीर्तितम्॥
कनिष्ठिके द्वे चांगुष्ठौ युग्मीकृत्वा प्रसारयेत् ॥३१०॥
वैराग्यस्य भवेन्मुद्रा सर्वकर्मकरी शुभा॥
पृष्ठे पृष्ठं तु संयोज्यं करयोरुभयोरपि ॥११॥
कनीन्यंगुष्ठयोगेन भवत्यैश्वर्यमेव च॥
पद्माकारो भवेद्धस्तः कनिष्ठातर्जनीयुतः ॥१२॥
चतस्र उच्छ्रिताः कृत्वा पृष्ठेन्योन्यं तु योजयेत्॥
अंगुष्ठावेकतः कृत्वा प्रणालं चैव कारयेत् ॥१३॥
सकलस्य भवेन्मुद्रा दुष्टानां शमनी शुभा॥
त्रयः सङ्कुचिता यत्र कनिष्ठांगुष्ठकेकलाः ॥१४॥
उत्तानं दक्षिणांगुष्ठं वामांगुष्ठेन वेष्टयेत्॥
दक्षिणांगुलिभिश्चात्र वामांगुष्ठं तु वेष्टयेत् ॥१५॥
वामस्यांगुलिभिश्चात्र त्वंगुली परिवेष्टयेत्॥
तर्जन्यौ कुञ्चितौ कृत्वा मुद्रा निष्कलरूपिणी ॥१६॥
उत्तानौ तु करौ कृत्वा अंगुष्ठांगुलिकुञ्चितौ॥
करमध्यस्थिता ह्येता नखाँस्तासां तु गोपयेत् ॥१७॥
पृष्ठं पृष्ठे तु संयोज्य त्वंगुष्ठौ विन्यसेत्समम्॥
मालाकारं ततः कृत्वा देव्या मुद्रा प्रकीर्तिता ॥१८॥
अंगुष्ठोंगुष्ठके योज्यः कनिष्ठायां कनिष्ठिका॥
करमध्ये तु तां कृत्वा षडाभ्यामेकतः कुरु ॥१९॥
सकुच्य तु षडेतानि शक्त्याकारं तु कारयेत्॥
स्कंदस्य तु स्मृता मुद्रा अभेद्या त्रिदशैरपि ॥३२०॥
अधोमुखं करं कृत्वा तिस्रोंगुल्यस्तु कुञ्चिताः॥
त्रिताला मध्यमा तत्र किंचित्सङ्कुचिता भवेत् ॥२१॥
तर्जन्यां योजयांगुष्ठे दन्ताकारं तु दर्शयेत॥
विघ्नराजस्य मुद्रैषा सर्वविघ्नप्रणाशिनी ॥२२॥
उत्तानौ प्रसृतौ हस्तौ तर्जन्यंगुष्ठसंवृतौ॥
अस्य वामौ तु संयोज्य शक्रमुद्रा प्रकीर्तिता ॥२३॥
संकोच्य करजां मध्यां हस्तयोरुभयोरपि॥
प्रसृतांगुष्ठमुत्तानां योज्या मुद्रा हुताशने ॥२४॥
अधोमुखं करं कृत्वा यस्य स्यात्कुंचितांगुलिः॥
विरूपाक्षस्य मुद्रैषा भवेन्मध्या प्रसारिता ॥२५॥
उत्ताने प्रसृतांगुल्यः करे भवति वारुणी॥
तामेव तु यदा तिर्यक्तदा भवति मारुती ॥२६॥
निकुंचिताश्च ताः सर्वाः कौबेरी तु प्रकीर्तिता॥
मध्ये प्रसारितास्तिस्रो मुद्रेशानी प्रकीर्तिता ॥२७॥
ब्रह्मजा पद्ममुद्रा स्याद्भोगोऽनंतस्य कीर्तिता॥
वामासक्तस्य वामां तु दक्षिणानामपक्रमे ॥२८॥
तयोरग्राणि गृह्णीत तर्जन्यग्रद्वयेन तु॥
संकोचयेत्षडेतानि स्वांगुष्ठे तर्जनीं न्यसेत् ॥२९॥
वज्र एषः समाख्यातः शक्तिः पूर्वमुदाहृता॥
करौ बाहुद्वयं चैव दण्डमुद्रा प्रसारिता ॥३३०॥
कनिष्ठानामिके द्वेद्वे अन्तर्यांगुष्ठकुंचितौ॥
चत्वारः प्रसृता युग्मः खड्गमुद्रा प्रकीर्तिता ॥३१॥
वर्तुलां तर्जनीं कृत्वा अंगुष्ठोपरि विन्यसेत्॥
दक्षिणं तर्जनी चैव तस्यास्ये तु नियोजयेत् ॥३२॥
दक्षिणं कुंचितं कृत्वा तिस्रो वामाः प्रसारिताः॥
मुष्टिं कृत्वा तु वामेन त्वंगुष्ठं तु समुच्छ्रयेत ॥३३॥
अंगुष्ठेन तु संगृह्य पताका प्रसृता करा॥
तिर्यक्करं तु कृत्वा वै सङ्कुच्य चतुरंगुलीः ॥३४॥
अंगुष्ठं प्रसृतं कृत्वा गदामुद्रा तथा परा॥
अन्योन्यं योजयेद्धस्तौ कनिष्ठांगुष्ठयोजितौ ॥३५॥
तदेव युग्मं प्रसृता शूलमुद्रा प्रकीर्तिता॥
नित्यं प्रसारयेद्धस्तं स्वल्पाकारं तु योजयेत् ॥३६॥
मध्यमेकन्यसेद्द्वेद्वे प्रसृताग्रे नियोजयेत्॥
तर्जनीद्वयं संकुच्य मध्यमापृष्ठसंस्थिता ॥३७॥
द्रव्यरूपा स्मृता ह्येषा आत्मभावे नियोजयेत्॥
उत्तानौ तु करौ कृत्वा षडेतेंगुलयः स्मृताः ॥३८॥
समानाः सुसमानाश्च योजिता वैष्णवी भवेत्॥
तर्जन्यौ कुंचिते कृत्वा मध्यमा पृष्ठतो न्यसेत् ॥३९॥
कनिष्ठोपरि चांगुष्ठौ वृतमुद्रा प्रकीर्तिता॥
उत्तानं वामहस्तं च दक्षिणं चाप्यधोमुखम् ॥३४०॥
मध्यमानामिके द्वे द्वे संकुच्यांगुष्ठसंस्थिते॥
तर्जनीकन्यका चैव मध्यमाभ्यां समाक्रमेत् ॥४१॥
द्वितीया द्रव्यरूपी च गन्धमुद्रा प्रकीर्तिता॥
उत्तानौ तु करौ कृत्वा कनिष्ठानामिका तथा ॥४२॥
संकोचयित्वा चत्वारो मध्यमे द्वे प्रसारयेत्॥
अंगुष्ठगे च तर्जन्यौ पुष्पमुद्रा प्रकीर्तिता ॥४३॥
उत्तानौ तु करौ कृत्वा षडंगुलिनिकुंचितौ॥
प्रसृते तर्जनीं कृत्वा चाग्रमग्रे नियोजयेत् ॥४४॥
तयोर्मूले तथांगुष्ठौ धूममुद्रा प्रकीर्तिता॥
तर्जन्या तर्जनी यत्र कनीयस्या कनीयसी ॥४५॥
चतस्र उच्छ्रिताः कृत्वा पृष्ठं पृष्ठे नियोजयेत्॥
अंगुष्ठावुच्छ्रितौ कृत्वा दीपमुद्रा प्रकीर्तिता ॥४६॥
उच्छ्रितांगुलयः सर्वाः कनीयोरुभयोरपि॥
पृष्ठं पृष्ठे तु संयोज्य अंगुष्ठाग्रे नियोजयेत् ॥४७॥
नैवेद्यमुद्रा कथिता फलकारकरा शुभा॥
अंगुल्यः संहताः सर्वास्तथा संकुचिताश्च याः ॥४८॥
पुष्पमुद्रा विनिर्दिष्टा द्वितीया यदुनन्दन॥
अंगुष्ठौ चैकतः कृत्वा अनामा च कनीयसी ॥४९॥
मध्यमे द्वे च संकोच्य अनामा पृष्ठतो न्यसेत्॥
दत्त्वा चैव तु तर्जन्यौ मध्यमाः परिविन्यसेत् ॥३५०॥
महामुद्रा भवत्येषा सर्वद्रव्यप्रपूरणी॥
अनामा मध्यमे द्वे तु अन्योन्यान्तरिते कृते ॥५१॥
संयोज्य मध्यमे स्वाग्रं तर्जनीद्वयमेव च॥
कनिष्ठाद्ये तथा द्वेद्वे स्वाग्रे नाम्नि नियोजयेत् ॥५२॥
अर्धस्थितौ तथांगुष्ठौ अमृताख्या प्रकीर्तिता॥
चण्डीशमुद्रा कथिता अञ्जलिः कुब्जतर्जनी ॥५३॥
अस्त्रमुद्रा भवेद्राजन् पद्मः स्यात्संहताञ्जलिः॥
दक्षिणेन तु हस्तेन मुष्टिं बद्ध्वा प्रयत्नतः ॥५४॥
अडुष्ठमुन्नतं कृत्वा वामाङ्गुष्ठे तु निक्षिपेत्॥
दक्षिणां च तथा मुष्टिं वामाङ्गुल्या तु वेष्टयेत् ॥५५॥
सद्योजातस्य मुद्रैषा कथिता पापनाशिनी॥
इयमेव विपर्यस्ता वामदेवस्य कीर्तिता ॥५६॥
करसम्पुटकं कृत्वा वामां नासां तु कारयेत्॥
दक्षिणे मध्यमाकुंच्य अङ्गुष्ठौ कुञ्चयेत्तथा ॥५७॥
शूलाकारं ततः कृत्वा हदयं परिवर्तयेत्॥
अघोरस्य स्मृता मुद्रा सर्वविघ्नविनाशिनी ॥५८॥
उत्तानौ तु करौ कृत्वा अनामाद्वयकुञ्चितौ॥
तस्यामुपरि चाङ्गुष्ठौ तर्जन्यौ द्वे च कुञ्चिते ॥५९॥
मध्यानामे तु ते द्वे तु कनिष्ठामेकतो न्यसेत्॥
मुद्रैषा वज्रसंज्ञस्य सर्वदुष्टनिवारणी ॥३६०॥
कनिष्ठानामिके द्वेद्वे अन्तरान्तरयोजिते॥
आकुञ्च्यान्तरिते योज्ये शेषे चैव प्रसारिते ॥६१॥
ईशानस्य भवेन्मुद्रा सर्वकर्मकरी शुभा॥
तर्जन्यौ कुञ्चिते कृत्वा तथैव च कनीयसी ॥६२॥
अधोमुखां स्पृष्टनखां स्थितां मध्ये करस्य तु॥
चतस्रश्चोच्छ्रिताः पृष्ठे त्वङ्गुष्ठावेकतः कुरु ॥६३॥
नालव्यवसितौ द्वौ तु मुद्रा व्योम्नः प्रकीर्तिता॥
मुष्टिं बद्ध्वा तु वामेन तर्जनीं सम्प्रसारयेत् ॥६४॥
ग्राह्या दक्षिणमुष्ट्या तु मुद्रा सर्वात्मना भवेत्॥
वाममुष्टौ तथाङ्गुष्ठं दक्षिणं प्रक्षिपेद्बुधः ॥६५॥
करजा पृष्ठतो योज्या मुद्रैषा शिवसंज्ञिता॥
अङ्गुल्योन्तर्हिताः सर्वा वर्तुला गर्भसंस्थिता ॥६६॥
प्रसृता मध्यमा युक्ता शिखामुद्रा प्रकीर्तिता॥
अधोमुखास्तु वै तिस्रः तिर्यक्ताश्च सुसंस्थिताः ॥६७॥
कनीयस्युपरि त्वासां ताश्च सर्वा अधोमुखाः॥
तासामुपरि चाङ्गुष्ठे दक्षिणं सम्प्रयोजयेत ॥६८॥
वामे धर्मज्ञमुद्रैषा कथिता लाङ्गलस्य तु॥
बन्धे त्वनामिका त्वस्मिन्मुद्रा ह्यस्त्रस्य कीर्तिता ॥६९॥
उत्तानौ तु करौ कृत्वा उभावेकत्र योजयेत॥
करजास्तु स्मृताः सर्वा मुद्रा गायत्रसंज्ञिताः ॥३७०॥
मुष्टौ प्रसारयेदेकामंगुलीं तु क्रमान्नृप॥
तर्जन्यन्तां कनिष्ठाद्यां शक्तिमुद्रा प्रकीर्तिता ॥७१॥
हृदि न्यस्तोऽञ्जलिर्ज्ञेयो नमस्कारो नराधिप॥
कपित्थयजनीं गृह्य शिखरेण ध्वजो भवेत ॥७२॥
अङ्गुष्ठे योज्य तर्जन्यौ हस्तोत्तानौ स्मृताङ्गुली॥
मणिबन्धौ निपीड्यैव शशिकर्णी भवेन्नृप ॥७३॥
सम्पुटीकृत्य हस्तौ द्वौ किञ्चित्सङ्कुचिताङ्गुलिः॥
मुकुला तु समाख्याता पङ्कजं प्रसृतैव सा ॥७४॥
उत्तानो तु सृतौ हस्तौ कृत्वाङ्गुष्ठौ तु कुञ्चितौ॥
मध्यसंस्थौ करौ कृत्वा आवाहन्यास्तु लक्षणम् ॥७५॥
अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गुलिवेष्टितौ॥
उभौ चाभिमुखौ हस्तौ योजयित्वा तु रिष्ट्ररा ॥७६॥
उत्तानं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत्॥
भ्रामयेद्वर्तुलाङ्गुष्ठा मुद्रा प्रोक्ता विसर्जने ॥७७॥
वितस्तिद्वयसंयोगाद्भद्रमुद्रा प्रकीर्तिता॥
मुष्टिः प्रमार्जिता ज्ञेया लिङ्गमुद्रा तथैव च ॥७८॥
सन्दष्टे मार्जितावोष्ठौ तीर्णमुद्रा प्रकीर्तिता॥
प्रसारितौ भुजौ कृत्वा भुजाग्रौ कुञ्चितौ तथा ॥७९॥
अग्राग्रौ कुञ्चितांशेन करपल्लवसन्निभौ॥
तर्जनीं कुञ्चितां कृत्वा अङ्गुष्ठोपरि विन्यसेत् ॥३८०॥
निकुब्जौ बाहुदण्डौ तु बध्नीयाच्च पृथक्पृथक॥
कैरिणी नाम मुद्रैषा कथिता सूर्यदेवता ॥८१॥
पद्माकारौ करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः॥
अङ्गुल्या कारयेत्तस्मिन्विश्वमुद्रेति कीर्तिता ॥८२॥
सम्मुखौ तु करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः॥
कनिष्ठामध्यमे योज्यौ तर्जन्यौ मध्यमे तथा ॥८३॥
हृदि मूर्ध्नि शिखाबन्धे मुद्रेयं व्योमसंज्ञिता॥
मुष्टिबन्धोच्छ्रितां कृत्वा मध्यहस्तस्य तर्जनीम् ॥८४॥
तालशब्दकृतासौ तु मुद्रा चास्रस्य कीर्तिता॥
मध्यमा तर्जनी चैव सव्यहस्तस्य चोच्छ्रिते ॥८५॥
कनिष्ठानामिके कुब्जे साङ्गुष्ठेनैव संज्ञिता॥
नेत्रप्रदर्शिता ज्ञेया गोवृषागमने तथा ॥८६॥
उत्तानौ तु करौ कृत्वा सर्वाङ्गुल्यो विकुञ्जिताः॥
कृत्वा चोपरि चाङ्गुष्ठं चालयेत पुनः पुनः ॥८७॥
सर्वासामेव शक्तीनां मुद्रैषा सम्प्रकीर्तिता॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा॥८८॥
अमोघा विद्युता चैव नवमा सर्वतोमुखी॥
इति नामानि शक्तीनां सरहस्यानि निर्दिशेत् ॥८९॥
सम्मुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ॥
इयं मुद्रा नमस्कारे रवि सान्निध्यकारिणी ॥३९०॥
अनामिकायाः सन्देशो रविमुद्रा प्रकीर्तिता॥
सोममुद्रा मध्यमया भीममुद्रा ह्यनामया ॥९१॥
कनीयस्या बुधे मुद्रा उन्मूले जीवसंज्ञिता॥
अनामिकामूलगा तु शुक्रमुद्रा प्रकीर्तिता॥९२॥
मध्यमामूलगांगुष्ठा शनिमुद्रा प्रकीर्तिता॥
तर्जनीमूलगांगुष्ठे राहु मुद्रा प्रकीर्तिता ॥९३॥
तर्जनी चलनाज्ज्ञेया केतुमुद्रा नराधिप॥
वामहस्तेन शिखराः क्रोधमुद्रा प्रकीर्तिता ॥९४॥
सम्पुटौ तु करौ कृत्वा वामोच्छ्रायां नराधिप॥
एषा वराहमुद्रा तु सर्वकर्मकरी शुभा ॥९५॥
वामेन वेष्टितौ हस्तौ दक्षिणा भैरवी भवेत्॥
हस्तावधो मुखौ यत्र दृष्टिश्चाधस्तथा भवेत् ॥९६॥
पातालभञ्जिनी नाम मुद्रैषा कथिता नृप॥
कपित्थानामिका दीर्घास्तम्भनी तु निगद्यते ॥९७॥
करमध्यात्तु संग्राह्यमिव मध्येन चाहतम्॥
एवं मध्येन संयुक्ता क्रोधिनी परिकीर्तिता ॥९८॥
सहमध्या तु संग्राह्या खातमध्ये द्विधाहतम्॥
एवमध्येन संयुक्ता वीर्यमुद्रा प्रकीर्तिता ॥९९॥
एवमध्येन संयुक्तं भैरवी चापरा भवेत्॥
क्षेत्रमध्या तु संग्राह्या इरमध्येन संयुतम् ॥३१००॥
एवमध्येन च क्रान्तं स्तम्भनी चापरा भवेत्॥
लसन्मध्या तु संग्राह्यमेकमध्येन चाहतम् ॥१०१॥
पातालभञ्जनी नाम मुद्रेयमपरा भवेत्॥
तर्जनी मध्यमा चैव तथा चैव त्वनामिकाम् ॥१०२॥
मध्यपर्वसु संयुक्तां पृष्ठतः कारयेत्करे॥
शङ्खमुद्रेयमुद्दिष्टा पूर्वमुक्ता तथापरा॥] ०३॥
प्रसार्य सर्वाश्चाङ्गुल्यः करपृष्ठे च योजयेत्॥
चक्रमुद्रा भवेत्तेषां पूर्वमुक्ता तथापरा ॥१०४॥
कटिभागप्रदेशे तु मुष्टिस्तु त्रिशिरा भवेत्॥
गदा मुद्रा भवत्येषा सर्वविघ्नप्रणाशिनी ॥१०५॥
अन्योन्याभिमुखौ कृत्वा करौ संवेष्टिताङ्गुली॥
सहाङ्गुष्ठेन निर्दिष्टा मुद्रा कौस्तुभसंज्ञिता ॥१०६॥
संस्पृश्य वह्निशिखिरां वामचक्रिणकं स्पृशेत्॥
इयं मुद्रा विनिर्दिष्टा वनमालेति पार्थिव ॥१०७॥
अनामीनाशने द्रव्ये स्रजं द्रव्य करद्वये॥
जंघामध्यगतौ कृत्वा चिबुकोऽर्धसमायुतौ ॥१०८॥
मुखं विवृतकं कुर्याज्ज्वलज्जिह्वा तु लेलिहा॥
एषा मुद्रा महामुद्रा नारसिंहीति कीर्तिता ॥१०९॥
अङ्गुष्ठं मुष्टिना ग्राह्यं ह्यमुद्रां परिकीर्तिता॥
मुष्टिं बद्ध्वैव चाङ्गुष्ठे तिर्यग्गं कारयेच्छिरः ॥३११०॥
स्पष्टा तु तर्जनीमुष्टौ शिखामुद्रा प्रकीर्तिता॥
तर्जनीप्रान्तसंलग्ने द्वे मुष्टी कवचं भवेत् ॥१११॥
मुष्टी बद्ध्वा तु हस्तौ द्वे उभयांगुलियोजितौ॥
गदामुद्रा समाख्याता सर्वकर्मकरी शुभा ॥१ १२॥
तर्जनी तु तथाङ्गुष्ठे प्रतिश्लिष्टौ तु कारयेत्॥
शेषाः प्रसारिताङ्गुल्यो नेत्रमुद्रा भवेन्नृप ॥११३॥
अनाम्योऽर्धेलिनौ कृत्वा तर्जन्यानां समं श्रयात्॥
मध्यमौ चोन्नतौ कृत्वा अङ्गुष्ठौ श्लेषितौ समौ ॥११४॥
एषा मुदा समाख्याता दिव्या च शिरसो नृप॥
अञ्जलिः प्रमदा मुद्रा क्षिप्रं देवप्रसारितम् ॥११५॥
वन्दने हृदया मत्ता पूर्वदक्षिणतोऽपरा॥
ऊर्ध्वोऽङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः ॥११६॥
संन्यस्य तस्य चाङ्गुष्ठौ यस्या ऊर्ध्वं प्रतिष्ठितम्॥
वासुदेवस्य मुद्रैषा बद्धा स्यात्पापनाशिनी ॥११७॥
हस्तयोरुभयोरेव कनिष्ठाङ्गुष्ठगर्भकौ॥
शेषाः प्रसारितः श्लिष्टा मुद्रा सङ्कर्षणस्य तु ॥११८॥
तर्जन्यावर्धतः श्लिष्टौ समाङ्गुष्ठौ तु श्लेषितौ॥
एषा मुष्टिं ततः कृत्वा मुद्रा प्रद्युम्नसंज्ञिका ॥११९॥
अङ्गुल्यौ वलितौ यत्र सूर्पाकारौ तु कारयेत्॥
वेष्ट्याङ्गुष्ठावधः कार्यावनिरुद्धे तु कारयेत ॥३१२०॥
इत्युद्देशे तु ते प्रोक्ता मुद्राहस्ता मया नृप॥
दर्शयेन्मन्त्रयुक्तानां परां सिद्धिमभीप्सिताम् ॥१२१॥
यथामन्त्रं यथादेवं यथाविधिरतंद्रितः॥
मन्त्रेषु देवतायुक्ता बह्व्यो मुद्राः प्रकीर्तिताः ॥१२२॥
तासां मन्त्रं तु विज्ञेयं नियोगो नृप इष्यते ॥१२३॥
एतावदुक्तं नृप नृत्तशास्त्रं समासतः पार्थिववंशमुख्य॥
निःशेषमेतद्गदितं महार्थं विस्तारतः सर्वजगत्प्रधानम् ॥१२४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रमुद्रा नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP