संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१२

खण्डः ३ - अध्यायः ३१२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
नृवाहान्पुरुषो यस्तु द्विजे सम्यक्प्रयच्छति॥
अश्वमेधफलं तस्य कथितं द्विजसत्तमाः ॥१॥
शिबिकायाः प्रदानेन वह्निष्टोमफलं तथा॥
दासं कर्मकरं दत्त्वा गोसवस्य फलं लभेत् ॥२॥
स याति शक्रसालोक्यं यस्तु योधं प्रयच्छति॥
यस्तु कर्मकरीं दासीं ब्राह्मणाय प्रयच्छति ॥३॥
लोकास्तु सुभगास्तस्य वसूनां समुदाहृताः॥
तरुणीं रूपसम्पन्नां दासीं यस्तु प्रयच्छति ॥४॥
सोप्सरोभिर्मुदायुक्तः क्रीडते नन्दने वने॥
उष्ट्रं वा गर्दभं विप्रा यो यच्छति द्विजातये ॥५॥
अलकां स समासाद्य यक्षेन्द्रैः सह मोदते॥
दानानामुत्तमं प्रोक्तं प्रदानं तुरगस्य तु ॥६॥
वडवायाः प्रदानेन तथा बहुफलं स्मृतम्॥
तुरङ्गं ये प्रयच्छंति सूर्यलोकं व्रजन्ति ते ॥७॥
यावन्ति तस्य रोमाणि तावद्वर्षशतानि च॥
शुक्लं तुरङ्गमं दत्त्वा फलं दशगुणं लभेत् ॥८॥
गौर्यथा कपिला श्रेष्ठा तथैव तुरगस्य तु॥
तुरङ्गमं सपर्याणं सालङ्कारं प्रयच्छति ॥९॥
पुण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा॥
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ॥१०॥
रथं द्विजाये दत्त्वा राजसूयफलं लभेत्॥
प्रदाय करिणीं सम्यगेतदेव फलं लभेत् ॥११॥
कुञ्जरस्य प्रदानेन स्वर्गलोके महीयते॥
राजा भवति लोकेस्मिन्यशोविक्रमसंयुतः ॥१२॥
सुवर्णकक्ष्यं मातङ्गं दत्त्वा विप्राय वै द्विजाः॥
राजसूयाश्वमेधाभ्यां फलं विन्दत्यसंशयम् ॥१३॥
चतुर्भिः कुञ्जरैर्युक्तं रथं दत्त्वा द्विजातये॥
समग्रभूमि दानस्य फलं प्राप्नोत्यसंशयम् ॥१४॥
भूमिः सशैला सवना सतोया दत्ता हि लोके भवतीह तेन॥
इष्टाँश्च लोकान्पुरुषः प्रयाति सम्पूज्यमानस्त्रिदशैर्महात्मा ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु वाहनदानविधिवर्णनो नाम द्वादशाधिकत्रिशततमोऽध्यायः ॥३१२॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP