संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९८

खण्डः ३ - अध्यायः १९८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
योगभूतं हरिं देवं चतुर्दश्या मुपोषितः॥
अर्चयेत्पौर्णमास्यां तु सोऽश्वमेधफलं लभेत् ॥१॥
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च॥
राजसूयमवाप्नोति कुलमुद्धरति स्वकम् ॥२॥
ब्रह्मभूतममावस्यां पौर्णमास्यां च पूजयेत्॥
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥३॥
अत्यर्थं प्रीतिमायाति मासपक्षान्तयोः सदा॥
पूजितः सोपवासेन भक्त्या देववरो हरिः ॥४॥
महाव्रतमिदं ख्यातं सर्वकल्मषनाशनम्॥
संवत्सरमिदं कृत्वा नाकपृष्ठे महीयते ॥५॥
सर्वपापप्रशमनं व्रतमेतत्प्रकीर्तितम्॥
स्ववित्तशक्तिरेवात्र सर्वकर्मसु कारणम् ॥६॥
कृत्वा व्रतं द्वादशवत्सराणि प्राप्नोति लोकं पुरुषोत्तमस्य॥
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषस्ततोन्ते ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाव्रतं नामाष्ट नवत्युत्तरशततमोऽध्यायः ॥१९८॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP