संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११०

खण्डः ३ - अध्यायः ११०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथ प्रतिष्ठादिदिवसे प्राप्ते शङ्खपटहतूर्यैः श्रीभगवन्तं विबोधयेत्॥
विबोधन मन्त्रं पठेत॥
ततः कल्पकोटिमूर्तिधरोर्ध्वबाहुः कलशधरस्थपतिश्चात्र भगवान् यश्चेह भगवानिति मन्त्रेण देवागारं प्रविशेयुः॥
ततः पञ्चगव्य मिश्रसर्वौषधिः सर्वगन्धान्सर्वरत्नानि सुवर्णं च पिण्डिकाश्वभ्रे निखनेत्॥
तत्र च मन्त्रा भवंति॥
महाभागः ॥१॥
भासः॥
त्रिसुपर्णः॥
भारुण्डम्॥
मृत्युलांगलम्॥
स्वस्ति न इंद्र द्वादशाध्यात्मम्॥
आत्मव्यूहं च ततः सांवत्सरोद्दिष्टे काले भगवन्तं सुसमं सदृष्टिपीठिकायाम्॥
ध्रुवा द्यौरिति निश्चलमनेनैव मन्त्रेण कुर्यात्॥
नाम चास्योदीरयेत्॥
प्रतिष्ठासाम च पठेत् ।
सर्वश्च जनो लाजाकुसुमोत्करेण जयशब्देन कोलाहलं कुर्यात्॥
वादित्राणि वादयेत्॥
ॐ नमो भगवते वासुदेवायेत्युदीरयेत्॥
ब्रह्मसूक्तं च पठेत्॥
अग्नेरायुरसीति जीवादानं कुर्यात्॥
कल्पकश्च कलशपाणिः पठेत्॥
ॐ प्रतिष्ठितोसि भगवन्सुप्रतिष्ठा भवत्वियम्॥
सान्निध्यं प्रतिपद्यस्व यजमानाभिवृद्धये॥
शन्नोस्तु द्विपदे नित्यं शन्नश्चास्तु चतुष्पदे॥
शन्नोस्तु सर्वलोकस्य शन्नो राज्ञस्तथैव च॥
यजमानः सभृत्यो यो सपुत्रपशुबान्धवः॥
रक्ष्यो भगवता नित्यं देशश्चायं नमोस्तु ते॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भगवद्विबोधनमन्त्रवर्णनो नाम दशोत्तरशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP