संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४४

खण्डः ३ - अध्यायः ३४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच॥
श्रोतुमिच्छाम्यहं त्वत्तः प्रसादं परमं हि यत्॥
कृतं भक्तजने तेन विष्णुना प्रभविष्णुना ॥१॥
मार्कण्डेय उवाच॥
हते त्रिभुवने राजञ्शक्रस्य बलिना पुरा॥
जगाम शक्रः शरणं कश्यपं पितरं ततः ॥२॥
कश्यपः शक्रमादाय जगामाथ पितामहम्॥
तमाह वरदो ब्रह्मा गच्छ कश्यप केशवम् ॥३॥
क्षीरोदशायिनं देवं शरणं मधुसूदनम्॥
तं च प्रार्थय पुत्रत्वे स ते पुत्रो भविष्यति ॥४॥
ततः स सर्वं त्रैलोक्यं देवराजस्य दास्यति॥
एवं चोक्तः कश्यपस्तु सार्धं त्रिदशपुङ्गवैः ॥५॥
क्षीराब्धिं स ततो गत्वा ददर्श तपसा हरिम्॥
दृष्ट्वा स्तवेन तुष्टाव ततस्तस्य तदा हरिः ॥६॥
प्रसन्नः पुत्रतामेत्य देवो वामनरूपधृक्॥
त्रिभिर्न्नतैस्त्रिभुवनं सर्वमाक्रम्य विश्वधृक् ॥७॥
प्रादाच्छक्राय राजेन्द्र बद्ध्वा दैत्येश्वरं बलिम्॥
कश्यपेन स्तुतस्त्वेवं तस्य पुत्रत्वमागतः ॥८॥
वज्र उवाच॥
स्तवेन येन तुष्टाव कश्यपो मधुसूदनम्॥
तं स्तवं त्वं समाचक्ष्व सर्वपापहरं शिवम् ॥९॥
मार्कण्डेय उवाच॥
शृणु राजन्स्तवं पुण्यं कश्यपेन प्रकीर्तितम्॥
क्षीरोदशयनाद्दृष्ट्वा देवदेवं समुत्थितम् ॥१०॥
कश्यप उवाच॥
ओं नमोऽस्तु ते देवदेव एकशृङ्ग वृषार्चित सिन्धुवृक्ष वृषाकपे सुरप अनिन्दित भद्र कपिल विष्वक्सेन ध्रुव धर्म धर्मध्वज वैकुण्ठ वृषावर्त अनादिमध्यनिधन जनप्रिय वृष्णिज अमृतेशय सनातन त्रिधामन् त्रिधाम तुषित दुन्दुभे महतांलोक
लोकनाभे पद्मनाभ विरिञ्च बहुरूप अक्षणादक्षय हव्यभुक् खण्डपरशो चक्र मुण्डकेश हंस महादक्षिण हृषीकेश सूक्ष्म महामुनिस्तोम विरज स्तम सर्वलोकप्रतिष्ठ शिपिविष्ट अतपा अग्रज धर्मज धर्मनाभ गभस्तिनाभ चन्द्ररथ अपाप्मन् त्वमेव समुद्रवास अज एकपात् सहस्ररंभित महाशीर्ष सहस्रदृक् सहस्रपाद अयोमुख महापुरुष सहस्रबाहो सहस्रमूर्ते सहस्राक्ष सहस्रप्रभव सहस्रशस्त्वामाहुर्वेदविदो वेदविदम् ॥सर्वेषामेव विश्वत्वमाहुः पुष्पहास परमचरत्वमेव वौषट् वषटकार स्वाहा मखेषु भागाप्राशिनं शतधारं सहस्रधारं च भूर्वा भुवर्वा त्वमेव ब्रह्ममय ब्राह्मणेय ब्रह्मा दिशस्त्वमेव द्यौरसि पृथिव्यसि मातरिश्वासि होता पोता मन्ता नेता होम्यहेतुस्त्वमेवाग्र्य विश्वधाम्ना त्वमेव दिग्भिः स्रग्भाण्ड ईज्योऽसि समाधासि सेमिंधिस्त्वमेव गतिर्मतिमतामसि योगोऽसि मोक्षोऽसि परमसि स्रुगसि धातासि यज्ञोऽसि सोमोऽसि धूमोऽसि दीक्षासि दक्षिणासि विश्वमसि स्थविर तुराषाड् हिरण्यगर्भ नारायण अनंत वृणसमे आदित्यवर्ण आदित्यतेजाः महापुरुष पुरुषोत्तम आदिदेव पद्मनाभ पद्महास पद्मशय पद्माक्ष हिरण्याग्रकेश शुक्ल विश्वात्मन्विश्वदेव विश्वतोमुख विश्वास्य विश्वसम्भव विश्वभुक्त्वमेव भुविकम अतिभूः प्रभाकर शम्भुः भवःस्वयम्भू भूतादिः महाभूत विश्वग विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि हविः विश्वधात ऊर्ध्वकर्म अमृतत्त्वाग्र भुवःपात घृताक्त अग्ने द्रुहिण अनन्तकर्मन्वशं प्राग्यं विश्वपार्श्व पार्श्व त्वमेव विश्व वरार्थिनस्त्राहीति॥
स्तोत्रेण यः काश्यपनिर्मितेन स्तोत्रं सदा देववरस्य कर्ता॥
काल्यं शुचिस्तद्गतमानसेन गन्ता स लोकान्पुरुषोत्तमस्य ॥११॥
इति श्रीविष्णु धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे कश्यपस्तोत्रवर्णनो नाम चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४४॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP