संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७१

खण्डः ३ - अध्यायः १७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
अनेन च विधानेन प्रतिमासं तु यो नरः॥
सप्तमीद्वितयं कुर्याद्यावत्संवत्सरो भवेत् ॥१॥
सोश्वमेधमवाप्नोति सूर्यलोकं च गच्छति॥
कुलमुद्धरते राजन्सर्वान्कामानुपाश्नुते ॥२॥
शिरसो वपनं कृत्वा योर्चयेत्तु दिवाकरम्॥
तस्यार्कस्तोषमायाति वह्निष्टोमं च विन्दति ॥३॥
अपूपैः सगुडैर्भक्त्या तथा च लवणान्वितैः॥
सहिरण्यैस्समभ्यर्च्य वह्निष्टोमफलं लभेत् ॥४॥
सूर्याह्णे यस्तु नक्ताशी संपूजयति भास्करम्॥
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति ॥५॥
अर्कोदये सदा यस्तु पूजयेच्च दिवाकरम्॥
इष्टान्कामानवाप्नोति सूर्यलोकं च गच्छति ॥६॥
यथायथा पूजयते तु सूर्यं कामाः समग्राः सफला भवन्ति॥
आरोग्यमग्र्यं च तथा नृवीर भूतस्य लोकः सवितुस्तथैव ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सूर्यपूजाप्रशंसावर्णनो नामैकसप्तत्युत्तरशततमो ऽध्यायः ॥१७१॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP