संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२६

खण्डः ३ - अध्यायः २२६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
विष्णुना देवदेवेन हंसरूपेण किं कृतम्॥
एनं मे संशयं छिन्धि मार्कण्डेय महामुने ॥१॥
मार्कण्डेय उवाच॥
आसीत्प्रजा ज्ञाननिष्ठा पूर्वं कृतयुगे नृप॥
जनानां ज्ञाननिष्ठत्वात्तदा यदुकुलोद्वह ॥२॥
स्वयं प्रभुत्वमभवत्तथा देवगणानि च॥
तथा कृतयुगस्यान्ते प्रावर्तन्त परिग्रहे ॥३॥
परिग्रहात्ततो लोभो लोभाद्द्वेषोऽभवत्ततः॥
रागद्वेषाभिभूतानां ज्ञानमन्तरधीयत ॥४॥
नष्टज्ञाने तथा लोके धर्मो नाशमुपागमत्॥
धर्मे नष्टे तु नश्यन्तं दृष्ट्वा लोकं जनार्दनः ॥५॥
भूत्वा हंसस्समो वर्णे विजहार महीमिमाम्॥
सुपक्षो देवचरणः सुचञ्चुः स्वायतेक्षणः ॥६॥
स सदर्श तदा देशे कस्मिंश्चित्संस्थितानृषीन्॥
ध्यायन्तो मूढविज्ञानाः किंकर्तव्यपरायणाः ॥७॥
स तान्दृष्ट्वा तु पप्रच्छ तेषां कुशलमव्ययम्॥
ते तमूचुः कुतो नष्टे ज्ञाने नः कुशलं द्विज ॥८॥
तानब्रवीन्मुनीन्सर्वान्स हंसः पक्षिराट् ततः॥
ज्ञानं प्रकाशयिष्यामि तं निबोधत सत्तमाः ॥९॥
एतच्छ्रुत्वा शुभं वाक्यं हंसेनोक्तं महात्मना॥
हंसमूचुर्महात्मानो भव त्राता द्विजोत्तम ॥१०॥
ज्ञाननाशेन सकलं मा नश्यत्वखिलं जगत॥
आदावेव त्वमात्मानं ब्रूह्यस्माकं महाखग ॥११॥
वयं हि भ्रष्टविज्ञानास्त्वां न विद्मो महाद्युते॥
तानब्रवीद्द्विजान्हंसो विष्णुरस्मि द्विजोत्तमाः ॥१२॥
तं ते ज्ञात्वा तदा विष्णुं पूजयामासुरञ्जसा॥
अब्रुवंश्च तथा ज्ञानं यथोक्तं तेन यादव ॥१३॥
ददुश्च गूढं शिष्येभ्यो नाशभीतास्तथा परम्॥
ततः प्रभृति लोकोऽस्मिञ्ज्ञानिनः केचिदेव तु ॥१४॥
एवं कृत्वा विष्णुना हंसरूप ज्ञानं नष्टं विप्रमुख्येषु दत्तम्॥
ज्ञाने प्राप्ते भूतले नष्टशोकाः सर्वे चासन्विप्रमुख्या नृवीर ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां हंसप्रादुर्भाववर्णनोनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥२२६॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP