संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९४

खण्डः ३ - अध्यायः २९४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
संरोहतीषुणाविद्धं वनं परशुना हतम्॥
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्कृतम् ॥१॥
मित्राणि यांति शत्रुत्वं नरस्याप्रियवादिनः॥
अनर्थाः स्वयमायांति मृतो नरकमृच्छति ॥२॥
तस्माद्भाव्यं मनुष्येण स्मितपूर्वाभिभाषिणा॥
प्रत्यक्षं च परोक्षं च सर्वेषां प्रियभाषिणाम् ॥३॥
मित्रतां यांति रिपवो नराणां प्रियभाषिणाम्॥
रक्षांस्यपि निगृह्यन्ते पुरुषैः सान्त्ववादिभिः ॥४॥
प्रियवाक्यात्परं लोके नास्ति संवननं परम्॥
प्रियो भवति लोकानां प्रियवादी तथा नरः ॥५॥
प्रियंवदानां सकलं जगदेतत्स्थितं वशे॥
प्रियंवदानां शत्रुत्वे नास्ति कश्चिज्जगत्त्रये ॥६॥
प्रियंवदाः सौख्यमिहाप्नुवंति प्रियंवदा नाकमथ प्रयांति॥
प्रियंवदाः सर्वमथाप्नुवंति प्रियंवदः स्यादत एव नित्यम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० खंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रियंवदप्रशंसा नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥२९४॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP