खण्डः ३ - अध्यायः २३८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
ऋषय ऊचुः॥
दृष्टारिष्टस्य भवता देहत्यागः प्रकीर्त्तितः॥
तस्मादस्माकमाचक्ष्व त्वरिष्टानि महामते ॥१॥
हंस उवाच॥
प्रवृत्तेर्विकृतिर्नॄणां बुद्धीन्द्रियशरीरजा॥
अकस्माद्दृश्यते येषां तेषां मरणमादिशेत् ॥२॥
एतत्समासात्कथितं विस्तरोऽयमतः परम्॥
सूक्ष्मारिष्टावबोधार्थं तथा स्पष्टार्थमेव च ॥३॥
न तु कर्मणि यो व्यभ्रे प्रभाकर्म निशाभृतः॥
छायां चन्द्रार्कयोर्वापि तयोश्च गमनं तथा ॥४॥
देवमार्गे प्रभा वह्नेर्ध्रुवं तारामरुन्धतीम्॥
पश्यत्यदृष्टामन्यैर्वा मृत्युः स्यात्तस्य वत्सरात् ॥५॥
सप्रभानामथान्येषां प्रभां यस्तु न पश्यति॥
तस्यैकादशमे मासे मरणं परिकीर्तितम् ॥६॥
सुवर्णं रजतं मूत्रं पुरीषं वमते निशि॥
स्वप्ने स मासे दशमे प्रयाति यममन्दिरम् ॥७॥
रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात्॥
अतीन्द्रियाणामन्येषां नवमे मरणं धुवम् ॥८॥
दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः॥
अनश्नन्तोऽपि पीनत्वमष्टमे स्यात्स मृत्युभाक् ॥९॥
पदं चासकलं यस्य खण्डं विकृतमेव वा॥
पांसुकर्दमयोर्दृश्येत्सप्तमे मासि मृत्युभाक् ॥१०॥
क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः॥
काकश्येनादयस्तस्य पष्ठे मरणमादिशेत् ॥११॥
यस्य गोमयचूर्णाभं शरीरान्मृज्यते रजः॥
स्वदेहच्छायाविकृतिः पञ्चमे स तु मृत्युभाक् ॥१२॥
अनभ्रे विद्युतं दृष्ट्वा चतुर्थे म्रियते ध्रुवम् ॥१३॥
शक्रचापं जले दृष्ट्वा गगनं वा द्विजोत्तमाः॥
अविद्यमानं धर्मज्ञस्तृतीये म्रियते ध्रुवम् ॥१४॥
अवघट्टनं नेत्रस्य विना रोगं यदा भवेत्॥
एकस्य यदि वा दृश्येत्स्थानभ्रंशो विधीयते ॥१५॥
मासेन विकृता नासा वक्रा च मरणप्रदा ॥१६॥
अर्धमासेन दुर्गन्धप्रभवं स्वशरीरतः॥
परचक्षुषि यश्छायामात्मनस्तु न पश्यति॥
स पश्यति महाभागा द्वादशाहेन वै यमम् ॥१७॥
निर्वाणदीपगन्धं तु यस्तु नाघ्राति मानवः॥
सप्ताहेन तु धर्मज्ञाः पश्यत्यर्कसुतं ध्रुवम् ॥१८॥
सद्यः स्नातानुलिप्तस्य हृत्पादशिरसा भवेत्॥
क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ॥१९॥
गण्डयोस्तिलकान्रक्तान्वर्णवैकृतमेव च॥
अहोरात्रेण मरणं पुरुषस्य समादिशेत् ॥२०॥
अङ्गुलिभ्यान्तु पिहिते श्रोत्रे तु न शृणोति यः ॥२१॥
शब्दं न पश्येत्तु मुखं निर्मले दर्पणे तथा॥
पश्येच्च पुरुषान्प्राप्तान्सद्यो मरणमादिशेत् ॥२२॥
मूर्धधूमविनाशे तु जलार्द्राद्वा तदुद्भवेत्॥
नासाभङ्गेन धर्मज्ञा द्व्यहान्मरणमादिशेत् ॥२३॥
स्पर्शदृष्टिरसप्राणशब्दचेष्टाविपर्ययः॥
दृश्यते तु मुमूर्षूणां स्वस्थातुरशरीरिणाम् ॥२४॥
श्लक्ष्णं खगं वरं लक्ष्म शीतोष्णस्य विपर्ययः॥
अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम् ॥२५॥
तोयवन्मेदिनीं तोयं मेदिनीमिव पश्यति॥
अतीन्द्रियं निरीक्षेत न वीक्षेत करस्थितम् ॥२६॥
पृथिवीमिव चाकाशं चाकाशमिव मेदिनीम्॥
आकाशमिव चात्मानं पूर्णमिन्दुमथातिथौ ॥२७॥
शुक्लकृष्णविपर्यासं स्थूलसूक्ष्मविपर्ययम्॥
विपर्यासं सदसतां दृश्यते जीवितक्षये ॥२८॥
षण्णां रसानां पर्यास इष्टानिष्टविपर्ययः॥
सर्वथा ग्रहणं पश्यन्निग्रहातीन्द्रियग्रहः ॥२९॥
अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते॥
शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः ॥३०॥
इष्टैरनिष्टैः संयोगोऽनिष्टैरिष्टसमागमः॥
भयधैर्यविपर्यासो जायते प्राणसंक्षये ॥३१॥
अतिदीर्घोऽतिह्रस्वो वा सतमस्कोऽतिशीतलः॥
उच्छ्वास प्राणसन्त्यागे गतासूनां प्रजायते ॥३२॥
अनाहतानां शब्दः स्यादाहतानामशब्दता॥
आहतानामशब्दत्वं मुमूर्षूणां नृणां गृहे ॥३३॥
उदक् प्रवृत्ते दिवसस्य नाथे पुण्ये दिने मोहविवर्जितस्य॥
नारायणे चेतसि संस्थिते वा मृत्युर्भवेत्पुण्यवतो द्विजेन्द्राः ॥३४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ऋषीन्प्रति हंसगीतास्वरिष्टयोगवर्णनो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः ॥२३८॥
N/A
References : N/A
Last Updated : January 27, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP