संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९२

खण्डः ३ - अध्यायः १९२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
कार्तिकात्तु तथारभ्य सम्पूर्णशशलक्षणम्॥
पूजयेदुदरे राजन्सदा नक्ताशनो भवेत् ॥१॥
लावणं मण्डलं कृत्वा चन्दनेनानुलेपिते॥
दशनक्षत्रसहितं तत्र सोमं तु पूजयेत् ॥२॥
कृत्तिकारोहिणीयुक्तं कार्तिके मासि पूजयेत्॥
सौम्यार्द्रासहितं राजन्मासि सौम्ये तथैव च ॥३॥
आदित्यपुष्यसहितं मासि पौषे च यादव॥
मघासर्पयुतं माघे फाल्गुने शृणु पार्थिव ॥४॥
अर्यम्णभाग्यसावित्रैः सहितं पूजयेद्विभुम्॥
चित्रास्वातियुतं चैत्रं वैशाखे शृणु पार्थिव ॥५॥
विशाखया च मैत्रेण युतं संपूजयेत्तथा॥
ज्येष्ठामूलयुतं ज्येष्ठे आषाढाद्यामनन्तरम् ॥६॥
श्रावणे श्रवणोपेतं सहितं च श्रविष्ठया॥
तथा भाद्रपदे पौष्णामाजाहिर्बुध्न्यसंयुतम् ॥७॥
अश्विनीभरणीयुक्तं तथा चाश्वयुजे विभुम्॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥८॥
गुडेन परमान्नेन लवणेन घृतेन च॥
इक्षुणेक्षुविकारैश्च पयसा पायसेन च ॥९॥
पूज्याश्चाविधवानार्यस्तथा तल्लक्षणैः शुभैः॥
ततोऽनन्तरमश्नीयाद्धविष्यं प्रयतो नरः ॥१०॥
ब्राह्मणानां व्रतान्ते तु महारजतरंजितम्॥
शक्त्या च वसनं दद्यान्नारी वा यदि वा नरः ॥११॥
रूपसौभाग्यलावण्यधनयुक्तो भवेन्नरः॥
व्रतेनानेन चीर्णेन स्वर्गलोकं च गच्छति ॥१२॥
सोपवासस्तु यः कुर्याद्व्रतमेतदनुत्तमम्॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥१३॥
सौभाग्यादि च यत्प्रोक्तं तदाप्नोति विशेषवत्॥
मनसा कांक्षितान्कामान्सर्वान्प्राप्नोत्यसंशयम् ॥१४॥
जनाभिरामश्च शशाङ्कवत्स्याद्धनादिलाभश्च तथैव लक्ष्म्या॥
शक्रेण तुल्यश्च तथैव शक्त्या मानुष्यमासाद्य भवेच्च राजन् ॥१९॥
इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मासर्क्षपौर्णमासीव्रतवर्णनो नाम द्विनवत्युत्तरशततमोऽध्यायः ॥१९२॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP