संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४०

खण्डः ३ - अध्यायः २४०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
पापेन सर्वदुःखानां नरो भवति भाजनम्॥
पापेन नरकं याति द्वेष्यश्चेह तथा भवेत् ॥१॥
नरः पापसमाचारः पापादपि विनश्यति॥
पापमेकं परं दुःखं सर्वेषां द्विजपुङ्गवाः ॥२॥
कृतपुण्योऽपि यः पापं करोति पुरुषः क्वचित्॥
स्वर्गेऽपि न सुखं तस्य तद्भयादुपजायते ॥३॥
स एकः पुरुषो लोके यस्य पापं न विद्यते॥
दीनान्धकृपणानाथांस्तथा च परमार्भकाः ॥४॥
तिर्यग्योनिगताश्चान्ये नरकेषु तथा परे॥
स्थावरासु च योनीषु तिर्यग्योनिषु चाप्यथ ॥५॥
व्याधिबन्धवधक्लेशताडनान्यप्यनेकशः॥
नरः प्राप्नोति धर्मज्ञस्तथा पापेन कर्मणा ॥६॥
ये पापहीनाः पुरुषाः प्रधानास्तेषां न दुःखं भवतीह किञ्चित्॥
तस्मात्प्रयत्नेन विवर्जनीयं पापं बुधैः पुण्यचयश्च कार्यः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापनिदर्शनवर्णनो नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४०॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP