संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७५

खण्डः ३ - अध्यायः २७५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
मनःसमाधिसंयुक्तस्तीर्थानुसारणात्फलम्॥
प्राप्नोति सुमहद्विप्रास्तथा सम्यगुपोषितः ॥१॥
सर्व एव मनुष्यस्य सर्वकर्मसु साधकम्॥
मनसा तु विशुद्धेन यद्यदाचरते नरः ॥२॥
न तद्बहुफलं तस्य प्रेत्य चेह च जायते॥
मनो हि परमं भूतं तच्छौचे प्रयतेत्सदा ॥३॥
मनःशौचयुतो जन्तुर्नरकं न प्रपद्यते॥
नाकलोकमवाप्नोति त्वथ वा परमं पदम ॥४॥
गुणैस्तु सह यो वासो गतदोषस्य मानदाः॥
उपवासस्स विज्ञेयो न शरीरस्य शोषणम् ॥५॥
निर्मले सुसुखे शुद्धे सत्यकूले महाह्रदे॥
स्नातव्यं मानसे तीर्थे तद्धि तीर्थमनुत्तमम् ॥६॥
अत्राप्युदाहरन्तीमं श्लोकं पौराणमच्युताः॥
यमो वैवस्वतो देवो यस्तवैष हदि स्थितः॥
आत्मनश्चाविवादश्चेन्मा गङ्गां मा कुरून्गमः ॥७॥
मनो लाघवदं कर्म सततं तु समाचरेत्॥
सर्वाणि तस्य पुण्यानि भवन्त्यभ्यधिकानि तु ॥८॥
मनःशौचसमायुक्तो यानि मर्त्यो निषेवते॥
मन एव मनुष्यस्य पूर्वरूपाणि शंसति ॥९॥
मन एव विजानाति कर्मणो गुरुलाघवम्॥
सत्यं शौचं दमः शौचं शौचं शारीरमेव च ॥१०॥
सर्वाणि तस्य शौचानि यस्य शुद्धं मनः सदा॥
मनःशुद्धिविहीनस्य सर्वे शौचा निरर्थकाः ॥११॥
न तु सा कृत्रिमा शक्या कर्तुं नास्तिक्यवर्जितैः॥
यस्य दोषपरित्यक्तं गुणाधीनं सदा मनः ॥१२॥
स एव यजते यज्ञैः स एकस्तपते तपः॥
स एकः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति॥
तस्माद्धि सर्वशौचानां मनःशौचं परं स्मृतम् ॥१३॥
आत्मा नदी पुण्यतटा सुतीर्था सत्योदका धृतिकूला दयोर्मिः॥
यस्यां स्नातः पूयते पुण्यकर्मा तीर्थं ह्यात्मा नित्यसंभोग एव ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु मनःशौचनिरूपणो नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP