संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३६

खण्डः ३ - अध्यायः ०३६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथ प्रत्यङ्गविभागो भवति तत्र द्वादशाङ्गुलपरीणाहो मूर्धा ।
चतुरंगुलोच्छ्रायं अष्टाङ्गुलं ललाटम् ।
शङ्खौ चतुरङ्गुलौ द्व्यङ्गुलोच्छ्रायौ पञ्चाङ्गुलौ गण्डौ चतुरङ्गुलो हनुः ।
द्व्यङ्गुलौ कर्णौ चतुरङ्गुलोच्छ्रायौ ।
कर्णमध्याङ्गुलं तद्रन्ध्रमुदकम्॥
पालिरनियमेन । ( कर्णस्य लुटिकापालिः)
नासा चतुरङ्गुला अग्रे द्व्यङ्गुलोच्छ्राया त्रिकायामा च नासापुटावंगुलीविस्तारौ द्विगुणद्विगुणायामौ ।
नासौष्ठमध्यमर्धाङ्गुलम् ।
ओष्ठश्चाङ्गुलः ।
चतुरङ्गुलायाममास्यम्।
अधरोङ्गुलं द्व्यंगुलं चिबुकम् ।
चत्वारिंशद्दन्ताः ।
तेष्वष्टौ दंष्ट्राः ।
अधार्ङ्गुलोच्छ्रिता दन्ताः ।
अङ्गुलद्वादशभागिका दंष्ट्रा ।
अङ्गुल विस्तृता त्र्यङ्गुलायामे नेत्रे ।
नेत्रत्रिभागं कृष्णमंडलम्।
पञ्चभागास्तारा ।
अर्धाङ्गुलिविस्तृते त्र्याङ्गुलायामे भ्रुवौ ।
तयोर्द्व्यंगुलमन्तरम् ।
चतुरङ्गुलं न्नेत्रान्तकर्णविवरम् ।
दशाङ्गुलविस्तृता ग्रीवा।
एकविंशत्यङ्गुलपरिणाहा षोडशाङ्गुलस्तनान्तरम् ।
षडङ्गुलं स्तनजत्र्वन्तरम् ।
षोडश बाहुमूलपरिणाहः।
द्वादशाग्रे सप्ताङ्गुलं करतलम् ।
पंचाङ्गुलं विस्तृतं पंचाङ्गुलप्रमाणा मध्यमिका ।
तत्पूर्वदलहीना प्रदेशिनी ।
तत्तुल्या चानामिका ।
तत्परिहीना कनिष्ठिका सर्वाः समत्रिभागपर्वाः ।
पर्वार्धा नखाः ।
त्र्यङ्गुलमङ्गुष्ठं द्विपर्वः।
जठरपरिणाहो द्वाचत्वारिंशांगुलः ।
वेद्यप्रमाणाभ्यामङ्गुलं नाभिः ।
कटिरष्टादशांगुला विपुला ।
तत्परिधिश्चतुश्चत्वारिंशत् ।
चतुरंगुलविस्तृतौ वृषणौ ।
षडङ्गुलं तावत्परिणाहं मेढ्रम् ।
तन्मध्यत ऊरू चतुरङ्गुलौ ।
तद्द्विगुणपरिणाहाङ्गुलविपुले जानुनी ।
तत्त्रिगुणपरिणाहं जङ्घाग्रम् ।
पञ्चागुलं चतुर्दशपरिणाहं द्वादश दीर्घौ षडङ्गुलविस्तृतौ पदौ त्रिकायताङ्गुष्ठौ ।
अङ्गुष्ठतुल्या प्रदेशिनी ।
तदष्टांगोनाः शेषाः ।
अङ्गुलचतुर्भागहीनोऽङ्गुष्ठनखः ।
तदर्धप्रमाणं प्रदेशिन्याः ।
तदष्टभागः शेषाणाम् ।
सर्वपादमङ्गुलमष्टाङ्गुलोत्सेधः ।
त्र्यङ्गुले पार्ष्णीः।
चतुरङ्गुलोच्छ्रायौ इति हंसप्रमाणं भवति।
भवंति चात्र॥
शेषाणां पार्थिवेन्द्राणां मानं युक्त्या प्रकल्पयेत॥
अनेनैवानुसारेण स्वमानस्यानुसारतः ॥१॥
मधक्षश्चन्द्रगौरस्तु नागराजभुजो बली॥
हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ॥२॥
रोमरुद्धकपोलस्तु गजगामी महामतिः॥
वृत्तोपचितबाहुस्तु भद्रः पद्मनिभो भवेत् ॥३॥
मुद्गश्यामस्तु मालव्यः कृशमध्यस्तनुच्छविः॥
आजानुबाहुः पीनांसो दन्तिघोणो महाहनुः ॥४॥
शरद्गौरस्तु रुचकः कम्बुग्रीवो महामतिः॥
सत्यस्तु सिकतश्चैव बलवांश्च प्रकीर्तितः ॥५॥
रक्तश्यामस्तु शशकः किंचित्कर्बुरकस्तथा॥
पूर्णगण्डश्च चतुरो मध्वक्षश्च प्रकीर्तितः ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे चित्रसूत्रे प्रमाणवर्णनो नाम षट्त्रिंशत्तममोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP