संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५२

खण्डः ३ - अध्यायः ०५२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
सप्तहंसे रथे कार्यो वरुणो यादसाम्पतिः॥
स्निग्धवैडूर्यसङ्काशः श्वेताम्बरधरस्तथा ॥१॥
किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषणः॥
सर्वाभरणवान्राजा तया देवश्चतुर्भुजः ॥२॥
वामभागगतं केतुं मकरस्य तु कारयेत्॥
छत्रं च सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ॥३॥
वामोत्संगगताकार्या गौरी तद्द्विभुजा नृप॥
उत्पलं तु करे वामे दक्षिणं देवपृष्ठगम् ॥४॥
पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः॥
शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ॥५॥
भागे तु दक्षिणे गङ्गा मकरस्था सचामरा॥
देवी पद्मकरा कार्या चन्द्रगौरी वरानना ॥८०॥
वामे तु यमुना कार्या कूर्मसंस्था सचामरा॥
नीलोत्पलकरा सौम्या नलिनीरजसन्निभा ॥७॥
स्निग्धवैडूर्य सङ्काशस्त्वापोवर्णो यतो नृप॥
तयोरनुग्रहार्थाय तद्वर्णो वरुणस्ततः ॥८॥
स्वरूपवर्णाः सुसितास्ता एव द्विजपुंगव॥
वसनं तस्य कथितं ता एव सुसितं नृप ॥९॥
वज्र उवाच॥
अम्भसस्तु कथं वर्णः सत्यासत्ये त्वयेरिते॥
एतत्तु श्रोतुमिच्छामि परं कौतूहलं हि मे ॥१०॥
मार्कण्डेय उवाच॥
वैडूर्याभमपां वर्णमतथ्यं यदुनन्दन॥
छायागतस्य नभसस्तद्रूपं तासु दृश्यते ॥११॥
प्रपातपातैर्यद्रूपमंभसां नृप दृश्यते॥
शशाङ्कांशुप्रतीकाशं तत्स्वरूपे प्रतिष्ठितम् ॥१२॥
प्रद्युम्नो वासुदेवस्तु वरुणो यादसां पतिः॥
तस्य भार्या रतिर्ज्ञेया गौरी यादवनन्दन ॥१३॥
सौभाग्यमुत्पलं तस्याः करे सुरतगं विभो॥
वरुणस्य करे पद्मं विधिधर्मे महाभुज ॥१४॥
शङ्खमर्थं विजानीहि पाशं संसारबन्धनम्॥
रत्नपात्रं करे ज्ञेयं सर्वरत्नधरा धरा ॥१५॥
यशश्च सुसितं छत्रं सौख्यं मकर एव च॥
ब्रह्मणा कथितं तस्य भुजाभरणधारणम् ॥१६॥
लवणक्षीरआज्यादि दधिमण्डसुरोदकाः॥
तथैवेक्षुरसोदश्च सुरोदश्च तथापरः । १७॥
समुद्रास्ते तु विख्याता लोके नरवरोत्तम॥
सप्तहंसा रथे तस्य वरुणस्य महात्मनः ॥१८॥
जाया तु यमुना ज्ञेया सिद्धिर्भागीरथी द्विज॥
वीर्यकालौ विनिर्दिष्टौ तथा मकरकच्छपौ ॥१९॥
स्वर्गगङ्गाकरे पद्मं वृद्धयामुनमुत्पलम् ॥२०॥
रूपं जलेशस्य तवैतदुक्तं मया शिरःपाशधरस्य तस्य॥
अतः परं वित्तपतेर्ब्रवीमि रूपं तवाहं यदुवंशचन्द्र ॥२१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वरुणरूपनिर्माणो नाम द्विपञ्चाशत्तमोध्यायः ॥५२॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP