संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१९

खण्डः ३ - अध्यायः २१९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुलस्त्य उवाच॥
मासि प्रोष्ठपपदे शुक्ले द्वादश्यां जलशायिनम्॥
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः ॥१॥
पाषण्डादिभिरालापमकुर्वन्नियमात्मवान्॥
जलधेनुं द्विजे दत्त्वा नक्तं भुञ्जीत वाग्यतः ॥२॥
तिष्ठंस्थितो व्रजंश्चैव क्षुतप्रस्खलनादिषु॥
अनन्तनामस्मरणं कुर्वन्नुच्चारणं नरः ॥३॥
अनेनैव विधानेन मासद्वादश वै क्रमात्॥
उपोष्य पारणे पूर्णे दद्याद्विप्रेषु दक्षिणाम् ॥४॥
कृत्वा व्रतं द्वादशमेतदिष्टं प्राप्नोत्यनंतानि फलानि विप्र॥
सम्यक्कृतानां नियमव्रतानां चानन्तमाराध्य न संशयोत्र ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दाल्भ्यं प्रति पुलस्त्यवाक्येष्वनन्तद्वादशीव्रतवर्णनो नामैकोनविंशत्युत्तरद्विशततमोध्यायः ॥२१९॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP