संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४६

खण्डः ३ - अध्यायः ३४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
ॐनमो भगवते वासुदेवाय नमोऽनन्ताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यङ्काय गरुडवाहनाय अजाय अजिताय पीतवाससे वासुदेव सङ्कर्षण प्रद्युम्न अनिरुद्ध हयशिरो वराह नरसिंह वामन त्रिविक्रम राम राम राम नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते॥
असुरवरदैत्यदानवयक्ष राक्षसभूतप्रेतपिशाचकुम्भाण्डसिद्धयोगिनीडाकनी स्कन्दपुरोगान्ग्रहान्नक्षत्रग्रहाँश्चान्यान्हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय शंखेन चक्रेण वज्रेण गदया मुसलेन हलेन भस्मीकुरु सहस्रबाहो स्रहस्रप्रहरणायुध जय जय विजय विजय अपराजित अप्रतिहतनेत्र ज्वल ज्वल प्रज्वल प्रज्वल विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुण्ठ नारायण पद्मनाभ गोविन्द दामोदर हृषीकेश केशवः सर्वासु रोत्सादन सर्वभूवशंकर सर्वदुःस्वप्नप्रभेदन सर्वयन्त्रप्रभञ्जन सर्वनागमर्दन सर्वदेवमहेश्वर सर्वबन्धविमोक्षण सर्वाहितमर्दन सर्वज्वरप्रणाशन सर्वग्रहनिवारण सर्वपापप्रशमन जनार्दन नमोऽस्तु ते स्वाहा॥
य इमामपराजितां परमवैष्णवीं सिद्धां महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनि वा भयम् ।
न समुद्रभयं न ग्रहभयम् ।
न चौरभयम् ।
श्वापद भयं वा न भवेत् ।
क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषविषोपविषगरदवशीकरणं विद्वेषणं विद्वेषणोच्चाटनवधबंधनभयं वा न भवेत् ।
एतैर्मंत्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।
तद्यथा
ॐनमोऽस्तु ते अनघे अजिते अमिते अमृते अपराजिते पठितसिद्धे स्मरातिसिद्धे एकानंशे उमे ध्रुवे अरुन्धति सावित्रि गायत्रि जातवेदसि मानस्तोके सरस्वति धरणि धारणि सौदामनि अदिति दिति विनते गौरि गान्धारि मातंगि कृष्णयशोदे सत्यवादिनि ब्रह्मवादिनि कालि कापालि निद्रे सत्योपयानकरि स्थलगतं जलगतमन्तरिक्षगतं वा रक्ष रक्ष सर्वभूतेभ्यः ।
सर्वोपद्रवेभ्यः स्वाहा ।
यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि॥
म्रियन्ते बालका यस्याः काकवन्ध्या च या भवेत् ॥१॥
शस्त्रं धारयते ह्येषां समरे काण्ड दारुणि॥
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाशयति व्यथाम्॥
शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम् ॥२॥
तद्यथा हनहन कालं सर सर गौरि गौरि धम धम विद्ये अलिताले माले गन्धे बन्धे पच पच विद्ये नाशय वा संहर दुःस्वप्नं विनाशय नाशनि रजनि सन्ध्ये दुन्दुभिनादे मानसवेगे शंखिनि वज्रिणि चक्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रावडि द्रावडि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि शबरि किराति । मातंगि ॐ द्रौंद्रौं ज्रों ज्रों क्रों क्रों तुरु तुरु येषां द्विषन्ति प्रत्यक्षं परोक्षं वा सर्वान्दम दम मर्द मर्द तापय तापय गोपय गोपय उत्सादय उत्सादय ब्रह्माणि महेश्वरि वराहि वैनायिकि उपेन्द्रि आग्नेयि चामुण्डे वारुणि वायव्ये रक्ष रक्ष प्रचण्डविद्ये ॐइन्द्रो पेन्द्रभगिनि विजये शान्तिस्वस्तिपुष्टिविवर्द्धनि कामांकुशे कामदुघे सर्वकामवरप्रदे सर्वभूतेषु मां प्रियं कुरु कुरु । आकर्षणि आवेशनि ज्वालामालिनि शोषणि सम्मोहनि नीलपताके ।
महानीले महागौरि महाश्री महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि यम घण्टे किणिकिणि चिन्तामणि सुरभि सर्वासुरोत्पन्ने सर्वकामदुघे यथामनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ॐ स्वाहा ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वःस्वाहा ।
यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा ।
ॐबले महाबले असिद्धसाधनि स्वाहेत्योम् ।
अमोघां पठितसिद्धां वैष्णवीमपराजितां ध्यायेत्॥
मार्कण्डेय उवाच॥
एवं हि कृतरक्षस्य वसुधारामुपाश्नतः॥
वसोर्वसुमतीगर्ते तिष्ठतो दनुनन्दनाः ॥१॥
आजग्मुर्विविधाकाराश्चतुरङ्गबलान्विताः॥
नानाप्रहरणा दग्धा भीमवाचः सदारुणाः ॥२॥
आगम्य वाग्भिरुग्राभिस्तर्जयन्तश्च ते वसुम्॥
निर्जघ्नुरायुधैर्भीमैर्देवपक्षपरं सदा ॥३॥
न च तेऽस्य रुजं चक्रुर्न च तानप्युदीक्षिता॥
चिन्तयामास देवेशं मनसा मधुसूदनम् ॥४॥
ततो निष्फलयत्नास्ते दृष्ट्वा तन्महदद्भुतम्॥
जग्मुः सर्वे गृहानेव विलक्षा दैत्यदानवाः ॥५॥
तेषु निष्फलयत्नेषु देवो गरुडमब्रवीत्॥
गत्वा गरुडराजानं वसुं शीघ्रमिहानय ॥६॥
एवमुक्तः स गरुडो देवदेवेन चक्रिणा॥
पक्षवातार्णवक्षोभक्षुब्धयादोगणो ययौ ॥७॥
ददर्श च भुवो गर्ते ध्यानसंमीलितेक्षणम्॥
वसुराजोऽपि गरुडं ददर्श हरिवाहनम् ॥८॥
स दृष्ट्वा गरुडं प्राप्तं कृष्णभक्तिसमन्वितम्॥
तुष्टाव गरुडं वाग्भिरर्थ्याभिरमितक्रियः ॥९॥
 ॥वसुरुवाच ॥
नमस्यामि महाबाहुं खगेन्द्रं हरिवाहनम्॥
विष्णोर्ध्वजाग्रसंस्थान वित्रासितमहासुर ॥१०॥
नमस्ते नागदर्पघ्न विनतानन्दवर्धन॥
स्वपक्षवातनिर्धूतदीनदैत्यनिरीक्षित ॥११॥
परस्परस्य शापेन सुप्रतीक विभावसो॥
गजकच्छपतां प्राप्तौ तावुभौ वैरसंयुतौ ॥१२॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः॥
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥१३॥
नखस्थौ तौ त्वया नीतौ हतौ भुक्तौ च पक्षिप॥
परस्परकृतोच्छ्रायौ द्वारौ च परिमोक्षितौ ॥१४॥
निषादविषयं भुक्तं तत्र कूरमनिन्दितम्॥
निषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥१५॥
त्वया रोहिणिवृक्षस्य योजनानां शतायता॥
शाखाभिन्नाः स्थिता यत्र वालखिल्याः सहस्रशः ॥१६॥
ताँस्तु वक्त्रगतान्कृत्वा नखस्थैर्गजकच्छपैः॥
नभस्येव निरालम्बे सर्वतः परिवारितः ॥१७॥
त्वया जित्वा रणे सर्वान्देवाञ्शक्रपुरोगमान्॥
आहतं तु परं सोमं वह्नेर्वाप्यथ काश्यप ॥१८॥
नागौ दृष्टिविषौ कृत्वा रजसा भुवि चक्षुषोः॥
जिह्वाग्रनित्यगं भुञ्जञ्चक्रे तौ देवनिर्मितौ ॥१९॥
आहृत्यापि त्वया सोमं नीतमेव न भक्षितम्॥
तेन विष्णोर्ध्वजस्थाने वाहनत्वं गतो ह्यसि ॥२०॥
त्वया निक्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः॥
जहार सहसा यत्र तच्छीघ्रं बलसूदनः ॥२१॥
यत्र जिह्वा द्विधाभूता पन्नगानां द्विजोत्तमाः॥
विनता मोचिता दास्यात्कद्र्वा पूर्वं जिता पणे ॥२२॥
उच्चैःश्रवास्तु किंवर्णः शुक्ल इत्येव भाषती॥
कृष्णवालमहं मन्ये पुच्छं दृष्ट्वैव वाक्छलात् ॥२३॥
त्वया वज्रप्रहारेण पक्षयुक्तं पुरा स्वयम्॥
दधीचिवज्रशक्राणां माननार्थाय नान्यथा ॥२४॥
तस्य पक्षस्य देवेन्द्रो यदा नान्तं हि दृष्टवान्॥
तदा तव सुपर्णेति नाम ख्यातं जगत्त्रये ॥२५॥
तेजसा भास्करं देवं जवेन च समीरणम्॥
न ते तुल्यो महाभाग नागपक्षक्षयङ्कर ॥२६॥
ध्यानमात्रे त्वयि विभो विश्वं स्थावरजङ्गमम्॥
क्षिप्रं प्रणाशमायाति तथा सर्वभयानि च ॥२७॥
स्वकया पक्षनाड्या त्वं ब्रह्माण्डं सकलं वहन्॥
नोपयासि प्रभो खेदं यथा देवो जनार्दनः ॥२८॥
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः॥
त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥२९॥
बलोर्मिमान्साध्वरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव॥
तपः श्रुतं सर्वमहीनकीर्तिरनागतादीन्विषयांश्च वेत्सि ॥३०॥
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभासे॥
समाक्षिपन्भानुसुतप्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुव ॥३१॥
दिवाकरः परिक्रमति यथा दहन्प्रजास्तथा दहसि हुताशनप्रभ॥
भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयत्युरगपरिवर्तपान्तकृत् ॥३२॥
खगेश्वरं शरणमुपागतोस्म्यहं महौजसं वितिमिरभ्रगोचरम्॥
महाबलं गरुडमुपेत्य खेचरं महौजसं वरदमजेयमक्लमम् ॥३३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे गरुडस्तोत्रं नाम षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४६॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP