संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६३

खण्डः ३ - अध्यायः २६३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
शीलं प्रधानं लोकेऽस्मिंस्तस्मिन्सर्वं प्रतिष्ठितम्॥
शीलेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥१॥
क्रियाः शीलविहीनस्य भवन्ति विफलाः कृताः॥
तस्माच्छीलवता भाव्यं पुरुषेण विजानता ॥२॥
शीलेन देवराट्छक्रः सुरैश्वर्यमवाप्तवान्॥
शीलेन धर्मराजोऽपि धर्मराजत्वमाप्तवान् ॥३॥
शीलेन वरुणो देवो राजराजत्वमाप्तवान्॥
शीलेन च कुबेरोऽपि धनाध्यक्षत्वमाप्तवान् ॥४॥
शीलेन सुखमाप्नोति स्वर्गं च मनुजोत्तमाः॥
शीलेन तदवाप्नोति यत्र गत्वा न शोचति ॥५॥
शीलं समासाद्य समस्तकामान्प्राप्नोति मुख्यान्पुरुषः प्रधानः॥
तस्मात्प्रयत्नेन नरेण शीलं समर्जनीयं सुखदं सदैव ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शीलप्रशंसावर्णनो नाम त्रिषष्ट्युत्तरद्विशततमो ऽध्यायः ॥२६३॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP