संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९१

खण्डः ३ - अध्यायः ०९१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि पक्वेष्टनिचयं तव॥
ब्राह्मणानां शुभा श्वेता क्षत्रियाणां तु लोहिता ॥१॥
मृत्पीता वैश्यजातीनां कृष्णा चैवान्त्यजन्मनाम्॥
यस्य वर्णस्य या शस्ता तां मृदं ग्राहयेद्बुधः ॥२॥
असङ्कीर्णाच्छुभाद्देशाद्गृहीत्वा शोषयेन्मृदम्॥
शोषितां तां विमृद्नीयात्सशैवालेन चाम्भसा ॥३॥
हस्तदीर्घेण यन्त्रेण तदर्धविस्तृतेन च॥
तदर्धमुच्छ्रितेनाथ कर्तव्या वेष्टका मताः ॥४॥
आतपे तास्तथा शुष्का विपचेन्नृपसत्तम॥
काष्ठैरसारैर्भूपाल गोकरीषैस्तृणैस्तथा ॥५॥
मृदुना नृप पाकेन न शान्त्यर्थं पचेच्च ताः॥
अपक्वांश्च न संग्राह्या न विलीनाः कथञ्चन ॥६॥
तासामत्यर्थपक्वानां भङ्गो भवति रूपके॥
भवन्त्यसाराश्चापक्वा विलीनाः कर्दनाशदाः ॥७॥
इष्टकानिचये वह्निं यो नरः संप्रयच्छति॥
सोमविक्रयिणा तुल्यः स तु पापः प्रकीर्तितः ॥८॥
तस्माच्छुद्धेन मूलेन तत्राग्निं दापयेन्नरः॥
वर्तमानमुखः सत्यं संविभज्य प्रयत्नतः ॥९॥
पक्वास्तु शीतलीभूताः स्वानुरूपैस्त्वरूपकैः॥
सम्यक्संयोजिता योज्या यथास्थाने नराधिप ॥१०॥
इष्टकासञ्चये नैवमेकैकं रूपकं बुधः॥
दर्शयेत्तु सुयुक्तेन यमस्याज्ञां विजानता ॥११॥
एवं रूपकविन्यासं शिलास्वपि विधीयते॥
एवं सुयुक्त्या कुर्वंति काष्ठसंघातकं तथा ॥१२॥
काष्ठानामायसं बन्धं सम्यक्कार्यं विजानता॥
इष्टकानामपक्वानां पङ्कबन्धो विधीयते ॥१३॥
इष्टकानां तु पक्वानां शिलानां च नराधिप॥
बन्धः कार्यः प्रयत्नेन वज्रलेपकृतः शुभः ॥१४॥
पक्वेष्टकानां रचना मयोक्ता सुधान्विता सैव भवेन्नरेन्द्र॥
सुधाशिलानां त्रिदशाधिवासे सुधाशिला नैव गृहेषु देया ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वः सं० इष्टकापरीक्षा नामैकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP