संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१४

खण्डः ३ - अध्यायः २१४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
व्रतान्यन्यानि मे ब्रूहि काम्यानि द्विजपुङ्गव॥
नारीणां पुरुषाणां वा सर्वज्ञस्त्वं मतो मम ॥१॥
मार्कण्डेय उवाच॥
कृत्तिकास्वर्चयेद्देवं कार्तिकीप्रभृतिक्रमात्॥
यावत्स्यात्कार्तिकं भूयो नरसिंहमुपोषितः ॥२॥
अनुलेपनपुष्पाद्यैः सर्वदोक्तैस्सदैव तु॥
व्रतावसाने दत्त्वा च चन्दनं तगरं द्विजे ॥३॥
चर्म चैवायुधं मुख्यं वासांसि विविधानि च॥
सर्वत्र जयमाप्नोति यत्रयत्राभिजायते ॥४॥
मार्गशीर्षादथारभ्य मृगशीर्षे तथार्चयेत्॥
यावदाग्रायणी भूयो रामं दशरथात्मजम् ॥५॥
अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु॥
व्रतावसाने दद्याद्गां तथा श्वेतां द्विजातये ॥६॥
श्वेतं वस्त्रयुगं चैव रजतं च तथा नृप॥
उपोषितः सदा कृत्वा व्रतं स्याच्छत्रुवर्जितः ॥७॥
पौषमासादथारभ्य पुष्पैर्नित्यमुपोषितः॥
यावत्पौषी भवेद्भूयो बलभद्रमथार्चयेत् ॥८॥
अनुलेपनपुष्पान्नैः सर्वरत्नैस्तथैव च॥
व्रतावसाने सघृतं कांस्यं कनकमेव च ॥९॥
दत्त्वा विप्राय भवति नित्यं पुष्टियुतो नरः॥
माघमासादथारभ्य मघासु सततं नरः ॥१०॥
वाराहमर्चयेद्देवं तथा नित्यमुपोषितः॥
घृताभ्यङ्गेन विधिवच्चन्दनेन सुगन्धिना ॥११॥
तथा च परमान्नेन घृतहोमेन चाप्यथ॥
दद्याद्व्रतावसाने च क्षितिं गां वा नराधिप ॥१२॥
पितृप्रसादमाप्नोति कृत्वैतद्व्रतमुत्तमम्॥
फाल्गुनात्तु तथारभ्य फाल्गुनीषु समर्चयेत् ॥१३॥
नरनारायणौ देवौ यावत्स्यात्फाल्गुनी पुनः॥
व्रतावसाने शयनं स्वास्तीर्णे प्रति पादयेत ॥१४॥
व्रतावसाने नारी स्यात्सुभर्त्रा समलंकृता॥
भार्यां नरस्तथाप्नोति रूपद्रविणसंयुताम् ॥१५॥
अनुकूलां श्रियं नित्यं तथा पक्षवतीं नृप॥
अवियोगमवैधव्यं करोत्येतन्महाव्रतम् ॥१६॥
चैत्रमासादथारभ्य नित्यं चित्रास्वथार्चयेत्॥
व्रतावसाने दद्याच्च चित्रं वस्त्रं द्विजन्मने ॥१७॥
व्रतेनानेन पुरुषः पुत्रानाप्नोत्यथेप्सितान्॥
नारी वा पुरुषव्याघ्र नात्र कार्या विचारणा ॥१८॥
वैशाखीतस्तथारभ्य विशाखासु तथार्चयेत्॥
यावद्भूयस्तु वैशाखी सोपवासः पृथुं विभुम् ॥१९॥
दत्त्वा व्रतान्ते कनकं ज्ञातिश्रैष्ठ्यमवाप्नुयात्॥
ज्येष्ठमासादथारभ्य ज्येष्ठासु सततं नरः ॥२०॥
अर्चयेद्भार्गवं रामं यावज्ज्येष्ठं पुनर्भवेत्॥
व्रतावसाने दद्याच्च च्छत्रोपानहमेव च ॥२१॥
व्रतेनानेन भवति सर्वश्रेष्ठो नरोत्तम॥
आषाढीतस्तथारभ्य दिनद्वयमुपोषितः ॥२२॥
आषाढ्यां त्वर्चयेद्देवं प्रद्युम्नमपराजितम्॥
भूयः स्याद्यावदाषाढी दद्याच्च शयनं ततः ॥२३॥
स्वास्तीर्णं तेन चाप्नोति नित्यं रूपयुताः स्त्रियः॥
श्रावणीतस्तथारभ्य श्रवणे सततं हरिम् ॥२४॥
अर्चयेत्सोपवासं तं यावत्स्याच्छ्रावणी पुनः॥
व्रतावसाने दद्याच्च कांस्यं रूप्यं घृतं तथा ॥२५॥
व्रतान्यथैतानि मया नरेन्द्र प्रोक्तानि ते पापहराणि नित्यम्॥
नाकप्रदान्युत्तमपूर्यमाणान्कामान्प्रदातॄणि यथेष्टमत्र ॥२६॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे द्वादशमासर्क्षव्रतवर्णनो नाम चतुदर्शोत्तरद्विशततमोऽध्यायः ॥२१४॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP