खण्डः ३ - अध्यायः १२६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥वज्र उवाच ॥
नाम्नां संपूजनं विष्णोस्त्वया कार्यं प्रकीर्तितम्॥
प्रादुर्भावेषु काम्यं च पूजनं च त्वयेरितम् ॥१॥
काल नामानि च तथा स्थाननामानि चाप्यथ॥
काम्यानि चैव नामानि त्वया प्रोक्तानि भार्गव ॥२॥
तस्यैव देवदेवस्य विष्णोरमिततेजसः॥
सर्वदेवमयस्येह सर्वरूपधरस्य च ॥३॥
आराधनविधानानि कथयस्व ममानघ॥
त्वं हि सर्वकथारामो यथा देवः पितामहः ॥४॥
भूय एव समाचक्ष्व उपवासफलं विभो॥
देवतापूजनार्थाय विधिना पूजनस्य च ॥५॥
मार्कण्डेय उवाच॥
अष्टपत्रं तु कमलं विन्यसेद्वर्णकैः शुभैः॥
ब्रह्माणं कर्णिकायां तु तस्य संपूजयेद्विभुम् ॥६॥
ऋग्वेदं पूर्वपत्रे तु यजुर्वेदं तु दक्षिणे॥
पश्चिमे सामवेदं तु उत्तरेऽथर्वणं तथा ॥७॥
आग्नेये च तथाङ्गानि धर्मशास्त्राणि नैर्ऋते॥
पुराणान्येव वायव्ये चैशान्यां न्यायविस्तरम् ॥८॥
एवं विन्यस्य धर्मज्ञ सोपवासस्तु पूजयेत्॥
चैत्रशुक्लादथारभ्य सोपवासो जितेन्द्रियः ॥९॥
सदा प्रतिपदं प्राप्य शुक्लपक्षस्य यादव॥
संवत्सरं महाभाग शुक्लगन्धानुलेपनः ॥१०॥
भूरिणा परमान्नेन धूपदीपैरतन्द्रितः॥
संवत्सरान्ते गां दद्याद्धुते चीर्णे नरोत्तम ॥११॥
इदं व्रतं यस्तु करोति राजन्स वेदवित्स्याद्भुवि धर्मनित्यः॥
कृत्वा तदा द्वादशवत्सराणि विधेश्च लोक पुरुषः प्रयाति ॥१२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ब्राह्मीप्रतिपल्लाभो नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥१२६॥
N/A
References : N/A
Last Updated : January 24, 2023

TOP