संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८०

खण्डः ३ - अध्यायः २८०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
रेचकं पूरकं चैव कुम्भकं च तथा द्विजाः॥
एकस्त्र्यवस्थो विज्ञेयः प्राणायामो महाफलः ॥१॥
आददानस्तु यः श्वासं मंत्राध्ययनमाचरेत्॥
मनसा ब्राह्मणश्रेष्ठा रेचकं तत्प्रकीर्तितम् ॥२॥
श्वास सन्धारणं कुर्वन्नाददानो न च त्यजन्॥
पूरकं तद्विनिर्दिष्टं सर्वकल्मषनाशनम् ॥३॥
मंत्रस्य देवताध्यानं प्राणायामं तथा चरेत्॥
प्राणायामात्परं नास्ति द्विजातीनां तथा तपः ॥४॥
निरोधाज्जायते वायुस्ततस्त्वग्निः प्रजायते॥
ततस्तु सलिलं देहे पूयते तैस्त्रिभिर्नरः ॥५॥
आकेशाग्रं नखाग्रं स्वं तप्स्यते परमं तपः॥
यस्तु कुर्याद् द्विजश्रेष्ठाः प्राणायाममतन्द्रितः ॥६॥
न तत्पुण्यमवाप्नोति तीर्थानुसरणाद्द्विजाः॥
न यज्ञेन तथा कृच्छ्रैः प्राणायामाद्यदाप्नुयात् ॥७॥
प्राणायामपरा विप्राः सर्वनिर्धौतकल्मषाः॥
त्रिदिवं प्रतिपद्यन्ते मोक्षं वा मनसेप्सितम् ॥८॥
प्राणायामेन नश्यन्ति महापातकजान्यपि॥
घोराप्येनांसि धर्मज्ञाः प्राणायाममतश्चरेत् ॥९॥
एतत्तपस्तत्परमं द्विजानां पापापहं पुण्यविवृद्धिकारि॥
मोक्षप्रदं वा पुरुषोत्तमानां तस्मात्प्रयत्नेन समाचरेत्तत् ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्राणायामवर्णनो नामाशीत्युत्तरद्विशततमोऽध्यायः ॥२८०॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP