संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६४

खण्डः ३ - अध्यायः १६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम्॥
सुप्रभां काञ्चनाक्षीं च विशालां मानसं ह्रदम् ॥१॥
तां त्रिनादां सुवेणुं च तथैव विमलोदकाम्॥
नित्यं संपूजयेद्भक्त्या बहिः स्नानं समाचरेत् ॥२॥
तासां च प्रत्यहं नाम्ना दध्ना होमं समाचरेत्॥
ब्राह्मणान्भोजयेच्चात्र दध्ना मिश्रं च भोजनम् ॥३॥
घृतौदनं तथाश्नीयात्सकृदेव तथा निशि॥
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ॥४॥
फाल्गुनामलपक्षे तु प्रत्यहं दिवसक्रमात्॥
वस्त्राणां सप्तकं दद्यात्तीर्थस्नाते द्विजोत्तमे ॥५॥
एवं संवत्सरं कृत्वा व्रतं सारस्वतं जपेत्॥
तत्रोष्य सुचिरं कालं मनुष्यो जायते तदा ॥६॥
तदा नरेन्द्रो विजितारिपक्षो द्विजोत्तमो वा बहु यज्ञयाजी॥
रूपेण शीलेन धनेन युक्तः श्रुतान्वितः स्याच्च जनाभिरामः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सारस्वत व्रतवर्णनोनाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥१६४॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP