संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३६

खण्डः ३ - अध्यायः १३६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
आराधनं हि देवस्य तस्य वक्ष्यामि यादव॥
विष्णोरमितवीर्यस्य तन्निबोध नराधिप ॥१॥
वाय्वर्कचन्द्रदेहस्तु त्रिमूर्तिर्भगवान्हरिः॥
अग्निष्टोमो जगत्यस्मिँश्चन्द्रार्कौ परिकीर्तितौ ॥२॥
सर्वाधारश्च भगवान्वायुः सर्वगतस्तथा॥
पञ्च भूतात्मकं सर्वं जगदेतच्चराचरम् ॥३॥
आधारभूतौ द्वावेतौ पृथिवी गगनं तथा॥
आधेयो विद्धि धर्मज्ञ तथा भूतत्रयं सदा ॥४॥
चन्द्रादित्यौ च वायुश्च सर्वस्य जगतो द्विज॥
आधाराधेयभावेन भूतैर्वृतमिदं जगत ॥५॥
नैव चास्ति जगत्यस्मिन्किञ्चिद्भूतविवर्जितम्॥
तस्माद्वा यादवश्रेष्ठ भूतैर्वृतमिदं जगत्॥
ब्रह्माणं विद्धि भूमिं च गगनं तदनन्तरम्॥
अण्डस्यान्तः स्थिता देवा वाय्वर्कं तुहिनांशवः ॥६॥
पालयन्ति जगत्सर्वं सदेवासुरमानुषम्॥
तथैवाण्डस्थिताः सर्वे पालयन्ति जगत्त्रयम् ॥७॥
तथैव देहिनां देहे पालयन्ति शरीरगाः॥
वातपित्त कफत्वेन वाय्वर्कशिशिरांशवः ॥८॥
आधारं जगतो यद्वद् ब्रह्माण्डं परिकीर्तितम्॥
तथा देहे शरीरस्था देहिनां हि त्वगुच्यते ॥९॥
ब्रह्माण्डे देहिदेहेऽपि गगनं दृश्यते द्वयोः॥
ब्रह्माण्डवच्छरीराणि वाय्वर्कशिशिरांशवः ॥१०॥
पालयन्ति महीपाल वातपित्तकफांशकाः॥
वाय्वर्कचन्द्र देहस्तु तस्माद्विष्णुस्त्रिमूर्तिधृत् ॥११॥
तस्य संपूजनं कार्यं यथावच्छृणु भार्गव॥
ज्येष्ठशुक्लतृतीयायां निराहारो नरः शुचिः ॥१२॥
त्रिमूर्तिपूजनं कुर्याद्द्वितीयायां यथाविधि॥
कूपनादेयताडाकमिश्रैः स्नातः शुचिर्जलैः ॥१३॥
प्रत्यूषे पूजयेद्वायुमनुलिप्ते शुभे स्थले॥
गन्ध माल्यनमस्कारधूपदीपान्नसंपदा ॥१४॥
होमं कुर्याद्यवैर्मुख्यैर्वस्त्रं दद्याद्द्विजातये॥
मध्याह्ने पूजयेद्वह्नौ तथा सूर्यमतन्द्रितः ॥१५॥
तिलांश्च जुहुयाद्वह्नौ दद्याद्द्विप्रेषु दक्षिणाम्॥
सूर्यास्तमनवेलायां जले चन्द्रं च पूजयेत् ॥१५॥
घृतेन होमं कुर्वीत रजतं दक्षिणा स्मृता॥
नक्तं भुञ्जीत धर्मज्ञ तैलहीनं ततो नरः ॥१७॥
पूर्णं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः॥
स्वर्गलोकमवाप्नोति सहस्रपरिवत्सरान् ॥१८॥
मानुष्यमासाद्य ततो राजा भवति गह्वरे॥
व्रतं कृत्वा महाराज पूर्णं संवत्सरत्रयम् ॥१९॥
पञ्चवर्षसहस्राणि स्वर्गलोके महीयते॥
मानुष्यं च समासाद्य राजा भवति धार्मिकः ॥२०॥
वीरो माण्डलिकः शूरः परचक्रभयंकरः॥
विरोगो दर्शनीयश्च सुभगो जनवल्लभः ॥२१॥
कृत्वा द्वादशवर्षाणि व्रतमेतदनुत्तमम्॥
व्रतावसाने विप्राणां सहस्रं भोजयेत्ततः ॥२२॥
भोज्यं त्रिमधुरं पेयं दद्याच्छक्त्या च दक्षिणाम्॥
ततः स्वर्गमवाप्नोति वर्षाणां च शतं व्रती ॥२३॥
ततो मानुष्यमासाद्य राजा भवति पार्थिवः॥
प्रदीप्तचक्रो बलवान्धर्मराजो जनप्रियः ॥२४॥
जन्मान्तरं समासाद्य ततो विप्रत्वमाप्नुयात्॥
ततो ब्राह्मण्यमासाद्य मोक्षोपायं च विन्दति ॥२५॥
आराधनं ते कथितं मयैतद्विष्णोस्त्रिदेहस्य महानुभाव॥
आराधितो येन जगत्प्रधान कामानभीष्टान्विदुषो ददाति ॥२६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुत्रिमूर्तिव्रतवर्णनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥१३६॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP