संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२७

खण्डः ३ - अध्यायः २२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
किमुक्तं तेन हंसेन ऋषीणां भावितात्मनाम्॥
एतं मे संशयं छिन्धि भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
बहूक्तं तेन हंसेन चर्षीणां भावितात्मनाम्॥
तस्मात्किञ्चिदहं वक्ष्ये तन्मे निगदतः शृणु ॥२॥
ऋषय ऊचुः॥
वर्णानामाश्रमाणां च ब्रूहि धर्मं द्विजोत्तम॥
तथा भक्ष्यमभक्ष्यं च शौचाशौचं तथैव च ॥३॥
हंस उवाच॥
यजनं याजनं दानं विशिष्टश्च प्रतिगृहः॥
अध्यापनमध्ययनं विप्रकर्म प्रकीर्तितम् ॥४॥
दानमध्ययनं यज्ञः पाशुपाल्यं वणिक्क्रिया॥
अमात्सर्यं च धर्मज्ञ धर्मस्साधारणो मतः ॥५॥
आनुलोम्येन वर्णानां जातिर्मातृसमा भवेत्॥
प्रतिलोमोद्भवाः सर्वे भवन्त्यार्यविगर्हिताः ॥६॥
सूतो वैदेहकश्चैव चाण्डालश्च द्विजोत्तमाः॥
विज्ञेया ब्राह्मणीपुत्राः क्षत्रविट्शूद्रयोनितः ॥७॥
मागधः पुक्कसश्चैव विट्शूद्रैः क्षत्त्रियासुतौ॥
आयोगवश्च वैश्यायां शूद्रपुत्रः प्रकीर्तितः ॥८॥
अन्ये वक्तुं न शक्यन्ते सङ्करात्सङ्करोद्भवाः॥
विवाहः सदृशश्चैषां नोत्तमैर्नाधमैः सह ॥९॥
सूतानामश्वसारथ्यं मागधानां स्तुतिक्रिया॥
वैदेहः स्यात्तन्त्रिजीवः पुक्कसानां च व्याधता ॥१०॥
आयोगवस्य शिल्पानि रंगावतरणं तथा॥
चण्डालानामसंस्पर्शस्तथा वैधव्यगामिता ॥११॥
गोब्राह्मणार्थे समरे हतानां स्त्रीबालहेतोर्यदि वाप्यशेषम्॥
स्वाम्यर्थकार्यं यदि वा प्रकुर्वतां सिद्धिः प्रदिष्टा न हि संशयोऽत्र ॥१२॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां वर्णधर्मवर्णनो नाम सप्तविंशदुत्तरद्विशततमोऽध्यायः ॥२२७॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP