संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४८

खण्डः ३ - अध्यायः २४८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम्॥
अहङ्कारेण भूपालाः शतशो निधनङ्गताः ॥१॥
अहंकृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः॥
मान्यामान्यन्न जानन्ति कार्याकार्यं त्वहंकृताः ॥२॥
अहंकृतस्तथा लोके न विद्यामधिगच्छति॥
विपन्नकार्यश्च तथा न प्राज्ञान्परिपृच्छति ॥३॥
न शृणोति तथान्येषां दर्पपूर्णो विचक्षणः॥
पातादन्यन्नभैषज्यं दर्पान्नास्त्येह कीर्तनम् ॥४॥
बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च॥
मरणे संनिकृष्टेपि मरणस्य विचक्षणः ॥५॥
हेतुभूतानि कर्माणि निन्दितानि निषेवते॥
स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्विनिन्दति ॥६॥
अहंकृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविनिन्दितानाम्॥
प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहंकारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतमोऽध्यायः ॥२४८॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP